- पशु पालबालपरिषद्विभूषणः
- शिशुरेष शीतल विलोललोचनः।
- मृदुल- स्मितार्द्रवदनेन्दुसम्पदा
- मदयन्मदीयहृदयं विगाहते।।71।।[1]
अन्वयः – पशुपालबालपरिषद्विभुषणः शीतल- विलोललोचन एषः शिशुः मृदुलस्मितार्द्रवदनेन्दु सम्पदा (स्मितावलोकादिसम्पत्त्या) मदयन् मदीय हृदयं विगाहते (व्याप्नोतीत्यर्थः)।।71।।
अनुवाद- गोपबालाओं की सभा के विभूषण– स्वरूप, शीतल और चञ्चल नयनों से युक्त ये किशोर मृदुल स्निग्ध हास्यमय वदनचंद्र द्वारा मुझे उन्मत्त कर मेरे हृदय में आधिपत्य विस्तार कर रहे हैं।।71।।
कृष्णवल्लभा
सम्प्रति परमभावमभ्यस्यञ् श्रीकृष्णचंद्रेण स्वहृदयाक्रमणमभिलषतीत्याह- पशुपालेति। एषोऽपरोक्षतया स्फुरञ्शिशुः सुकुमारी मृदुल- स्मितार्द्रवदनेन्दु सम्पदा मृदुलं यत्स्मितं तेनार्द्रं सरसं यद्वदनं तदेवेन्दुस्तस्य या सम्पल्लावण्य- माधुर्य सौन्दर्य – सौकुमार्य- सौरभ्यरूपा सम्पत्तिस्तया मदयन् हर्षयन् मदीयहृदयं विगाहते, विशेषेणाक्रमति स्वायत्तीकरोतीत्यर्थः। कीदृशः- पशुपालनबालपरिषद्विभूषणः। पशुपालबालानां गोपशिशूनां श्रीदामसुबलादीनां परिषदं सभां विभूषयतीति सः। यद्वा, पशुपालानां गोपानां बाला रमण्यो यस्यां सा चासौ परिषच्च तां विशेषेण भूषयति मण्डयतीति सः। पुनः कीदृशः शीतलविलोललोचनः। शीतले परमशान्तिप्रदे विलोले चञ्चले विशिष्टे हाव-भाव-कटाक्षनाना-दृष्टियुक्ते लोचने यस्य सः।।71।।
सुबोधनी
पूर्वोक्तं राधिकादिसाहित्यं व्यनक्ति- एष शिशुर्मदीयानां हृदयं मृदुलस्मितार्द्रवदनेन्दोः स्मितावलोका-दिसम्पत्या हर्षयन्विगाहते। व्याप्नोतीत्यर्थः। तत् साहित्यमाह- पशुपालनां बाला यस्यां सा पशुपालबाला, सा चासौ परिषच्चेति कर्मधारये पुंवद्भावः[2] सैव विभूषणं यस्य। अतः शीतले विलोले लोचने यस्य।।71।।
|