श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – कालिन्दीकुवलयदल- श्यामतरलाः (कालिन्दी- कुवलयदलतोऽपि श्यामाः चञ्चलाः) किमपि करुणावीचिनिचिताः (असाधारणी या करुणा तस्या वीचिभिः खचिताः) कटाक्षाः कदा वा लक्ष्यन्ते (लक्षिष्यन्ते), कन्दर्पप्रतिभट जटाचन्द्रशिशिराः (कन्दर्पस्य प्रतियोद्धुः शिवस्य जटास्थित- गंगासम्बन्धेन सहज शीतलेन्दुतः अपि अतिशीतलाः) मुरली-केलिनिनदाः (दूरतोऽपि मुरल्याः केलौ ये निनादाः) कदा वा कमपि अन्तस्तोषं दधति (धास्यन्ति)?।।26।। अनुवाद- कालिन्दी के नीलकमलतुल्य श्यामला और चञ्चलं श्रीकृष्ण के असाधाराण करुणा-लहरी से जड़े कटाक्ष कब देख पाऊँगी? और कब कन्दर्प-शत्रु महादेव की जटाओं में स्थित जान्हवी के जल-स्पर्श से अति सुशीतल चंद्र की तरह मुरली का केलिनिनाद मेरे चित्त को अनिर्वचनीय संतोष प्रदान करेगा?।।26।। कृष्णवल्लभा किमप्यनिर्वचनीयं यथा स्यात् तथा करुणावीचिरधिकाधिकता तया निचिता व्याप्ताः। कुवलयदलान्यपि वीचिभिस्तरलानि भवन्ति। दर्शनान्तरं मुरल्या नामग्राहमाहूय परिहासं करोतीति तदनुभवेन तथैव चाभिलषति। तदाह- कदा वेति। शब्दद्वयं द्वयोः प्राधान्यार्थम्। कदा वा मुरलीकेलिनिनदा मुरलीसंबंधिनः केलिनिनदाः क्रीडार्थं ध्वनयः कमप्यनिरूप्य-मन्तस्तोषमन्तः करणसन्तोषम्। अन्तरन्तरात्मनि यस्तोषस्तं वा। अस्मादन्यः सर्वोऽपि संतोषो बाह्य इति। |
टीका टिप्पणी और संदर्भ
- ↑ शिखरिणी छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज