श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
स्वरवैकृत्येनाश्चर्यद्योतनम्। स्वस्य तद्वहिर्मुखपूर्वदशास्मृत्यादसः प्रयोगः। तान् कोड़ीकृत्य बहुत्वप्रयोगश्च। तमेवाश्रयणीयनायक- सद्गुणेर्विशिनष्टि। तत्र कालिन्दीति सदा विलासित्वमुक्तम्। मधुरिमेति रुचिरत्वम्। तासामाकर्षणे उपेक्षाप्रत्यायक- वाग्भंगी प्रार्थानादिचातुरीस्फूर्याह– चातुर्येति। अनेन वैदग्ध्यम्। चपलेति मोहनत्वम् चपलानां तासामपांगच्छटाभिर्मन्थरं स्तब्धमिति प्रेमवश्यत्वम्। तस्या मुखेन्दुदर्शना-दुच्छलितो यो लावण्यामृतार्णवस्तदमृत-वीचिभिर्लोलिताः सतृष्णीकृतास्तस्याः पश्यताञ्च दृशो येनेति सौन्दर्यम्। वेणुनादाकृष्टाया नभःस्थिताया लक्षम्या अपि कटाक्षैरादृतं सादरं सलालसमीक्ष्यमाणमिति नारीगणमनोहारित्वम्। कामावतरांकुरम्- कामानां चतुर्व्यूहान्तर्गत- प्रद्युम्नाख्यस्वस्वरूपाणां शाखास्थानीयानां तदंशलेशाभासरूपाणामनन्त- ब्रह्माण्डान्तर्गत- प्राकृतकामानां पत्रस्थानीयानामवतारस्य प्राकट्यस्यांकुरं प्रथमोद्भिन्न-कोमलस्कन्धांशम्। प्राकृताप्राकृतकन्दर्पनिदान-वृन्दावनाभिनवकन्दर्पमित्यर्थः। आगमादौ कामगायत्र्या कामबीजेन च तस्य तद्रूपेणोपास्यत्वात्। कोटिमदनविमोहनाशेषचित्ताकर्ष सहजमधुरतम-लावण्यामृत-पारार्णवेन महानुभाव-चयानुभूयमान– तत्तन्महाप्रभावनिवहेन श्रीमदनगोपालरूपेणाधुनापि वृन्दावने विराजमानत्वाच्छ। अनेन सर्वावतारबीजत्व- सर्वमाधुर्ये उक्ते।
‘आस्वादबिन्दु’ टीका |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज