श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
सारंगरंगदा इति प्रसिद्धेश्च बाल-शब्देनात्र किशोर एवोच्यते। अन्यथा व्याख्यायां कामावतारांकुरत्वासम्भवात्। एवमग्रेऽपि ज्ञेयम्। कीदृशम्- नीलमिन्द्रनीलमणिवच्छ्यामम्। मूर्तं श्रृंगाररसमित्यर्थः। यदुक्तम्- (गीतगोविन्दे 1/48)- श्रृंगारः सखि मूर्तिमान्। इति। तथा, रासरंग-कालिन्दी-पुलिनमेव माधवीचतुःशालिकाया अंगनं तत्र प्रणयिनम् सदा तत्र विलसन्तमित्यर्थः। तथा, प्रबललज्जावाम्याभ्यां परमोत्कण्ठाया-मप्यधोमुखतया स्थितायाः लक्ष्म्याः श्रीराधायाः कटाक्षे तत्प्राप्तावादृतं सादरम्। तथा, परितः स्थितास्वप्यन्यासु श्रीराधाया एव लावण्यामृत-वीचिभिर्लोलिते सतृष्णीकृते दृशौ यस्य तम्। अतोऽन्यास्त्यक्त्वा तया सह रहोलीलोत्कण्ठया सर्वसमाधान-पूर्वक-मन्यालक्षित-प्रेरणया तन्निष्क्रमणस्वनिष्क्रमणादिषु तस्य तत्तच्चातुरीस्फूर्त्याह- चातुर्येति। चातुर्याणां नेत्रान्तादिद्वारैव तत्तजज्ञापनरूपाणां यानि मुख्यानि निदानान्यादि-कारणानि तेषां सीमावधिरूपश्चपलश्च योऽपांगस्तस्य छटया तां मन्थरयति स्तब्धां करोतीति तम्। अतो लक्ष्म्यास्तस्याः कटाक्षे आदृतं सादरम्। संकेतज्ञानमिदं ज्ञाप-यत्विय-मिति तदभिलषन्त-मित्यर्थः। यद्वा, श्रियः कान्ताः कान्तः परमपुरुषः (ब्रह्मसंहिता 5/56) इत्यादि, लक्ष्मीसहस्रशत-सम्भ्रमसेव्यमानम् (तत्रैव 5/29) इत्यादि ब्रह्मसंहिता-द्यनुसारेण लक्ष्मीणां व्रजदेवीनां कटाक्षैरादृतमपि चातुर्यैकनिदान-सीमायाश्च पलायास्तल्लीलार्थ जातचापल्यायाः श्रीराधाया योपांगस्तच्छटाभिर्मन्थरं जातस्तब्धतया तत्तत् क्रिया-दिष्वप्य-शक्तम्। तथा “प्रेमैव गोपरामाणां काम इत्यगमत्प्रथाम्” इत्याद्नुसारेण कामस्य तद्विषयक-प्रेमविशेषस्य योऽवतारः प्राकट्यं तस्यांकुरः प्ररोहो यस्मात्तम्। सर्वमाधुर्य-मनुभूयाह- मध्विति। मधुरिम्णां स्वराज्यम्। तत् सर्वमत्रैव सुलभमित्यर्थः। तत्रास्य तस्याः सख्येनानुगतिः “राधापयोधरोत्संग।” (श्लोः 76) इत्यादौ “ये वा शैशवचापलव्यतिकरा राधावरोधोन्मुखाः” (श्लोकः 106) इत्यादौ च सुव्यक्तैव। बाह्यदशार्थस्त्वेवम्- स्वसंगिनः प्रत्येव न केवलं तादृशं वस्त्वस्त्येव वयमपि तदुपास्मह इत्याह- अमी वयम्। जानन्त एवं जानन्तु (भा. 10/14/38) इत्यादिना, नायं सुखापो भगवान् (भा. 10/9/21) इत्यादिना विधिशुकादिभिः स्तुतं बालमाराध्नुम इति। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज