श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
कलिं द्यति खण्डयतीति यमुनाजनकत्वात् कलिन्दः पर्वतः। पृषोदरादित्वात् (पा. 6/3/109) निपातः। तद्भवा कालिन्दी यमुना। तस्याः पुलिनमेवांगनं विहरणस्थानं तत्र प्रणयः स्नेहो यस्य तम्। तत्रैव स्थितत्त्वात्। तमाराधयाम् इति भावः। पुनः कीदृशम् कामावतारांकुरम्। कामावतारस्यांकुरो यस्मात्। यद्वा, कामस्यावतारा भावहावकटाक्ष-लीलादृक्पाता-दयस्तेषामंकुरं प्रोद्गमस्थानम्। पुनः कीदृशम्- मधुरिमस्वाराज्यम्। मधुरिम्ण माधुर्या-तिशयस्य स्वाराज्यमशेषवैभवम्। यद्वा, मधुरिम्णि स्वाराज्यमनन्याधीनत्वं यस्य, मधुरिमा मधुररसः स एव स्वाराज्यं यस्येतिवा, तम्। मधुररसरूपमित्यर्थः।। 3।। सुबोधनी इत्युक्तेर्बाल- शब्दप्रयोगः केवलक्रीडैकपरताज्ञापकः। स्वपूर्व-दशास्फूर्त्यादसः प्रयोगः। कथं तमेवाराधयथ- मधुरिम्णां स्वाराज्यम्। तत्सर्वमत्रैव सुलभमित्यर्थः। कीदृशं बालम्- इन्द्रनील-मणिस्वच्छम्। किशोरत्वमापादयन्नाह- चातुर्याणा-मिंगितात्रेणा-भीष्टज्ञापकानां यानि मुख्यान्यादिकारणानि तेषामवधिरूपो यस्तम्। कथं चातुर्यावगतिः- चपलापांगस्य या छटा तां मन्थयति स्वविषयक-भावोद्दीपनैः स्तब्धां करोतीति तम्। तन्मन्थरीकरणमपि किमर्थम्- तस्या लावण्यामृततरंगेण लोलिते सतृष्णीकृते दृशौ यस्य तम्। अतएव लक्ष्म्याः श्रीराधायाः कटाक्षे आदृतं सादरम्। साभिलाष-मित्यर्थः। यमुना-पुलिनस्थस्य तस्य राधिका-साहचर्यस्य युक्तत्त्वात्। देवत्वे देवदेहासा मानुषत्वे च मानुषी। इत्यादि विष्णुपुराणे (1/9/143) तथोक्तेः। कथं वा तदभिलाषो ज्ञातः कालिन्द्याः पुलिनमेवांगनं तत्र प्रणयिनम्। तदाशया तत्र सदा स्थितमित्यर्थः। स्वाभिलाषमात्रेण कथं तत्सिद्धिः- कामस्य स्वविषयाभिलाषस्य योऽवतारः प्राकट्यं तस्यांकुरः प्ररोहो यस्मात्तम्।। 3।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज