- “सदानुभूतमपि यः कुर्यान्नवनवं प्रियम्।
- रागो भवनन्नवनवः सोऽनुराग इतीर्यते।।”[1]
पुनः कीदृशीम्- मृदौ सहजसुकुमाराक्षरे जल्पिते आर्द्रां स्निग्धाम्। मन्मथरसनर्ममयत्वादसित-सरसामित्यर्थः। पुनः कीदृशीम्-अधर एवामृतं घनीभूतं तस्मिन्नाताम्रां सर्वतोऽरुणाम्। पुनः कीदृशीम्-अम्लानवंशीस्वनेषु मदकलाम। अम्लाना अन्तर्हर्षा- वेशान्नानामाधुर्यादिरूपा ये वंशीस्वनास्तेषु मदकला हर्षव्याप्तम्। आनम्रोपचयालोलत्वाताम्रत्मदकला- दिनासितत्त्वादिना माधुरी- चमत्कारविशेषेणातिमोहकत्व-मुक्तमिति।।54।।
सुबोधनी
पुनस्तदपगमेऽत्यु – त्सुकस्तद्दर्शनमाशास्ते-मम लोचनं व्रजशिशोर्मूर्तिं द्रष्टुमाकांक्षति। को वास्य दोषः – जगन्मोहिनीम्। तत्र हेतुनाम- श्याममयो- र्भ्रूवोरानम्रां कुटिलाम्। अनल्पेषु पक्ष्मांकुरेषु समृद्धिमतीम् सघनपक्ष्मां-कुरामित्यर्थः। निजाभीष्ट- विषयानुरागयुक्तयो- र्नयनयोरति-सतृष्णाम्। अतो मृदौ जल्पिते स्निग्धाम्। तेनैवाधरमृतेऽत्यरुणाम्। म्लानिर्म्लिष्टतास्पष्ट स्वरादिस्तद्रितेषु वंशीस्वनेषु हर्षेण मधुराम्।।54।।
सारंगरंगदा
अथ मूर्छन्त्याः सखीभिः प्रबोधिताया अत्यौत्- सुक्यात्तात्तन्माधुर्यस्फुर्त्या भूमौ निपत्य नेत्रे निमील्यैव ताः प्रति प्रलपन्त्या वचोऽनुवदन्नाह- अहो, एतादृशदशायामपि मम लोचनं व्रजशिशोर्व्रज-किशोरस्य मूर्तिमाशास्ते द्रष्टुमाकांक्षति। अथवास्य को दोषः, यतः- जगन्मोहिनीम्। तत्र हेतूनाह- श्यामभ्रुवोरानम्रां कुटिलाम्। अक्षीणेषु पक्ष्माकुरेषू- पचितां समृद्धिमतीम। प्रोद्भटसघन पक्ष्मांकुरामित्यर्थः। मद्विषयानुराग युक्तयोर्नयनयोरालोलां प्रसारितपक्ष्म- पक्षाभ्यामुड्डिडीषु- बद्धखञ्जनयुगवच्चञ्चलाम्। मृदौ जल्पिते आद्राम्। अधरामृते आताम्रमत्यरुणाम्। अम्लानवंशीस्वनेषु मुदकलाम्। स्मरमदोद्गारेण गम्भीरामित्यर्थः। स्वरमंद वर्द्धयतीति वा।। दशाद्वये सुगमोर्थः।।54।।
‘आस्वादबिन्दु’ टीका
श्रील कृष्णदास कविराज गोस्वामिपाद कहते हैं- ‘मैं श्रीकृष्ण माधुर्य में लीन हो गई हूँ’ यह कहते-कहते राधारानी मूर्च्छित हो गई। सखियों ने उन्हें प्रबोध दिया, फिर भी अति उत्सुकतावश श्रीकृष्णमाधुर्य की स्फूर्ति से वे पृथ्वी पर पड़ी ही रहीं। बन्द आँखों से सखियों के आगे जो प्रलाप किया है, श्रीलीलाशुक इस श्लोक में उसी का अनुवाद कर रहे हैं।
|