श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
तथा तावेव भावावाश्रित्य भावशावल्यञ्च। तल्लक्षणम्- तत्रामर्षानुगा असूयौग्रय्यावहित्थाः। औत्सुक्यानुगानि मतिदैन्यचापलानि। अत उन्मादोद्गताभ्यां भाव- सन्धिभावशावल्याभ्यां प्रलपन्त्या वचोऽनुवदन्नाह अन्यांगनासम्भूक्तं तं मत्वामर्षोदयात् सहज निजधीराधीरमद्यात्व-गुणमाश्रित्य सवाष्पं वक्रोत्त्या सम्बोधयति, हे देव ! अन्याभिः सह दीव्यसीति देवस्त्वम्। अतस्तत्रैव गच्देत्यर्थः। तल्लक्षणम्[3]- धीराधीरा तु वक्रोक्त्या सवाष्पं वदति प्रियम्। इति- तदैवावधीरणाद्गतमिव तं मत्वा जातपश्चात्तापात् तद्दर्शनौत्सुक्येनाह- हे दयित ! त्वं तु मे प्राण दयितोऽसि, कथं त्यक्ष्यसे, तत् पुनर्दर्शनं देहीत्यर्थः। पुनरागत्यानुनयन्तमिव तं मत्वामर्षानुगा- सूयोदयाद् धीरमध्यात्वमाश्रित्य वक्रोत्क्या सोल्लुण्ठमाह- हे भुवनैकबन्धो ! तवात्र को दोषस्त्वं न केवलं ममैव सर्वगोपीनामपि। किमुत् तासामेव, वेणुनादाकृष्टानां भुवनानां तदन्तर्गतस्त्रीणामपि बन्धुरसि। तत् सर्वसमाधानार्थं गच्छेत्यर्थः। तल्लक्षणम्[4]- पुनर्गतमिव मत्वौत्सुक्यानुगमत्याख्यभावोदयादाह- हे कृष्ण हे श्यामसुन्दर चित्ताकर्षक। चित्तं तया हृतम्, किं मे मानेन, तत् सकृदपि दर्शनं देहीति भावः। पुनरागत्य प्रिये ! मया बहिरेव स्थितम्, न कुत्रापि गतम्, प्रसीदेत्यनुन-यन्तमिव मत्वौग्रय्योदयादधीर- मध्यात्वगुणमाश्रित्य सरोषमाह- हे चपल वल्लवीवृन्दभुजंग। परस्त्रीचौर गच्छ गच्छेत्यर्थः। तल्लक्षणम्[6]- अधीरा परुषैर्वाक्यैर्निरस्येद्वल्लभं रुषा। इति। पुनर्गतमिव मत्वा हन्तावधीरणाद्गतोऽयं पुनर्नैष्यतीति दैन्योदयात् सकुक प्राह- हे करुणैकसिन्धो ! यद्प्यहमपराधिनी तथापि त्वं करुणा कोमलत्वाद्दर्शनं देहीत्यर्थः। पुनरागत्य प्रिये किमिति मुधा मानेन मां कदर्थयसि प्रसीदेत्यनुनयन्तमिव मत्वामर्षानुगावहि- त्थोदयाद् धीरप्रगल्भा-गुणमाश्रित्य सौदासीन्यमाह- हे नाथ ! त्वं तु व्रजवासिनां नो रक्षितासि, का नाम हतधीस्त्वां न सम्भाषते, किन्तु ब्राह्मणीभिर्व्रतार्थं मौनं ग्राहितास्मि, तत् क्षन्तव्योऽयं ममापराध इति भावः। तल्लक्षणम्[7] |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज