“ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति।
- यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्।।”[1]
समस्त दुःखपरिजिहीर्षकत्वमाह- हे करुणैकसिन्धो ! अस्मद्दुःखप्रहाणकरीणां करुणानां त्वमेकः सिन्धुः समर्थत्वात्। अन्येषां करुणस्वभावानां दुःखितत्त्वेन दुःखखण्डनेच्छारूप-करुणासत्त्वेऽपि निष्प्रयोजनत्वान्न सा करुणोच्यते। यत इति-
“दयालोरसमर्थस्य दुःखायैव दयालुता।
- त्रैलोक्याभयदक्षस्य सा तवैकस्य शोभते।।”[2]
प्रार्थककाम- पुरकत्वमाह- हे नाथ याच्ञापूरक- सकलैश्वर्यविराजमान। “नाथृ नाधृ याच्ञोपात पैश्वर्याशीः षु चेति धातोः। हे रमण रमयति क्रीडयति चित्तमिति रमण। अतस्तद्दर्शनाकांक्षामाह- हे नयनाभिराम ! नयनयोरभिराम अतिरमणीयत्वेन नेत्रापहारकत्वात्। नयनयोर्गोचरत्वे सत्यमस्माकं जीवनमित्यभिप्रायः।।40।।”
सुबोधनी
पुनः स्फूर्त्यपगमे भावशावल्योदयात् सदैन्यमाह। तत्र क्रीडानन्दाविष्टतया मद्दुःखं न जानासीत्याह- हे देव क्रीडाविष्ट ! हा हेत्यतिखेदे। कस्मिन्काले त्वं मे दृशोर्विषयं भविष्यसि। तत्र हेतुः- हे दयित। दयिततया तदनुभवो युक्तः। दयित्वमपि कथम्- भुवनानामेकः केवलो निरुपाधिको यो बन्धुः, हे तथाविध। जगद्वन्धुतया ममापि बन्धुस्त्वमेवेत्यर्थः। तदपि कुतः- हे कृष्ण सर्वाकर्षक ! स्वानामरूपगुणा-दिभिर्जगदाकृष्या-त्मपरकरणाज्जगद्वन्धुत्वम्। तर्हि कुतो दुर्लभता- हे चपल स्वच्छन्दाचरित ! तर्हि कुतः प्राप्त्याशा- करुणैका मुख्या यत्र हे तादृशसिन्धो ! तत्रात्मनो वैशिष्ट्यमाह- हे नाथ, अस्मत्पालक। इदं तु कथम्- हे रमण मदभीष्टराधापते। अतएवास्म- न्नयनयोरभिराम रजिजनक।।40।।
सारंगरंगदा
अथोत्थाय दिशोऽवलोक्य, अपि सख्यो नूपुरशब्दः श्रूयते, स न दृश्यते, तदत्र कुञ्जे कयापि रममाणः शठोऽयं तिष्ठतीति वदन्त्याः पुनरुन्मादावेशादन्य-सम्भोगचिह्नांकं तमागतं पुरः पश्यन्त्यास्तं प्रत्यमर्षोदयः। पुनर्गतमिव मत्वा जातपश्चात्तापादौत्सुक्योदयः। अतस्तयोः सन्धिः। तल्लक्षणानि- स्वरूपयोर्भिन्नयोर्वा सन्धिः स्याद् भावयोर्युतिः।[3] इति।
|