|
|
सुबोधनी
अथ स्वकृतं तत्प्रीतयेऽर्थयन्नाह– हे कृष्णदेव लीलाशुकेन मया रचितमिदं कल्पशतमध्येऽपि तव कर्णयोरास्वाद्यं वहुत तद्योग्यतां प्राप्नोतु। तत्र हेतुः– ईशान उपक्रमोक्तो मदीशः श्रीगुरुः, देवो ममेष्टदेवस्त्वं शिक्षागुरुः, तयोश्चरणाभरणवत् सेवको यस्तेन तत्रापि हेतुः- भविष्योत्तरोक्त- कार्तिकमाहात्म्यरीत्या प्रियानीव्या दाम उदरे यस्य, तस्य ते नित्ययशसो यः स्वतकः पितृमात्रोस्तच्छ्रवणादिफलम्, तदुद्भवेन। अनेन स्वपितृमात्रोस्तद् यशः श्रवणकीर्तना- द्याविष्टान्तरतः स्वजन्म सूचितम्। अतस्तत्तत् सम्बन्धेनैव ममेदं त्वत्कर्णपेधं भवत्वित्यर्थः।।110।।
सारंगरंगदा
ततः, अये लीलाशुक मत्कर्णामृतरूपत्वद्- भाषितेनाप्यायितोऽस्म्, तत् प्रार्थय पुनः किमप्यभीष्ट मित्यत्र, देव त्वदेतत्साक्षाद्दर्शनेन पूर्णोऽस्मि, किं मया प्रार्थ्यम्, तथापीदमपि देहीत्याह- हे कृष्णदेव लीलाशुकेन मया रचितं तव कर्णामृतमिदं कल्पशतान्तरेऽपि त्वद्भक्तिरसिक- जनचित्तमाप्लाव्य वहतु। कीदृशा मया- ईशानः सर्वेश्वरचासौ देवः क्रीडारतश्च तस्य। ईशा राधा, सा चाननमानः तस्या मम वानः प्राणश्चायं देवस्य। स च तयोर्वा चरणा एव शिरोहृदयाभरणानि यस्य तेन। अत्र पक्षे छन्दोऽनुरोधात् प्र- शब्दस्याप्रयोगः। तथा, नीवीदामोदरस्य नीवीदाम उदरे यस्य। कार्तिक्यां खण्तिया श्रीराधा काञ्च्या बद्धोदरस्य। तथा हि भविष्योत्तरोक्तलीलार्थबद्धश्लोकः-
- “संकेतावसरे च्युते प्रणयतः संरब्ध्या राधया
- प्रारभ्य भ्रूकटीं हिरण्यरशनादाम्ना निबद्धोदरम्।
- कार्तिक्यां जननीकृतोत्सववर – प्रस्तावनापूर्वकं
- चाटूनि प्रथयन्तमात्तपुलकं ध्यायेम दामोदरम्।।”
इति। यद्वा, मम नीवी मूलधनरूपश्च दामोदरश्च तस्य। तव यः स्थिरयशः स्तवकोऽम्लान यशः- कुसुमगुच्छः स एवोद्भवो विभवः सम्पद् यस्य तेन। ईशानदेवस्य शिवस्येति नीवीदामोदरयो- र्मातृपित्रोरिति च केचिदाहुः।।110।।
|
|