- देवस्त्रिलोकीसौभाग्य कस्तूरीमकरांकुरः
- जीयाद् व्रजांगनानंगकेलिलालित विभ्रमः।।103।।[1]
अन्वयः – त्रिलोकी- सौभाग्य- कस्तूरी- मकरांकुरः व्रजांगनानंग- केलिलालित- विभ्रमः देवः जीयात्।।103।।
अनुवाद- त्रिलोकी- सौभाग्य- कस्तूरी- मकरांकुरों से शोभित व्रजांगनाओं की अनंगकेलि द्वारा जिनका विलास मधुर बना है, वही रासक्रीड़ापरायण देव जययुक्त हों।।103।।
कृष्णवल्लभा
तर्हि तव मनोहरं वस्तु कीदृगित्यत- आह- देव इति। दीव्यति क्रीडति द्योतते मोदते माद्यति वेति देवः श्रीकृष्णो जीयात्। सर्वोत्कृष्टस्वरूपो मम चक्षुर्विषयतया प्रकटो भवत्वित्यर्थः। कीदृशः- त्रिलोकीसौभाग्य- कस्तूरीमकरांकुरः। त्रयाणां लोकानां समूह- स्त्रिलोकीत्युपलक्षणम्। सैव नायिका तस्याः सौभाग्यप्रदः कस्तूरीमकरांकुरः पत्रांकुर एव। यद्वा, त्रिलोक्यां सौभाग्यप्रदः कस्तूरीमकरांकुरो यत्र। आलिंगनेन लग्नत्वात्। अतएव- व्रजांगनानंगकेलि-लालितविभ्रमः। व्रजांगना- नामनंगकेल्या लालितः पोषितो विभ्रमो विलासो यस्य सः।।103।।
सुबोधनी
तच्चरितस्य श्रेष्ठत्वविचित्रत्वव्यक्त्यै- तस्मिन्निजेष्ट देवत्वं प्रतिपादयन्नाह- देवोजीयात्। येन त्वमपि विशेषितः स ममेष्टदेवः सर्वोपरि विराजताम्। कोऽसौ- व्रजांगनानां प्रेममयकेलिभिर्लालितः संवर्द्ध्य प्रकटीकृतो यो विभ्रमो विलासः सः। न केवलं ममैव त्रिलोक्या अपि सौभाग्यव्यञ्जक- कस्तूरीमकरांकुरो यः। त्वन्मधुररसमय- विलासश्रवणादिरेव- त्रिलोक्याः सौभाग्यलंकार इत्यर्थः। तद्रसस्य श्यामत्वात् कस्तुरीसाम्यम्।।103।।
|