श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
एतज्ज्ञानं कुत- माधुर्ये मग्नं कृतमज्जनमाननं यस्य। तत्रापि वैशिष्ट्यमाह- बर्होत्तंसस्य यो विलासो मन्दानिलान्दोलनं तद्युक्तः कुन्तलकलापो यस्य। अन्यच्च- प्रविलसन्तो ये वेणोः प्रणादास्त एवामृतानि यस्मिन्। ततोऽपि विशिष्टं तमाह- गोपीभिः स्वस्वाभिरुचितया सेवितम्। कीदृशीभिः- अतिनिविडानि स्तनमुकुलानि यासां ताभिः। अनेन लक्ष्म्याः परिजनसाहित्यं व्यञ्जितम्।। 4।। सारंगरंगदा
तत एकेन स्वनिश्चयकथनम्। ततो गोपीनां रासान्तर्हितकृष्ण- दर्शनोत्कण्ठाप्रलापस्फूर्त्या तद्दर्शनप्रार्थने त्रयस्त्रिंशता। ततः स्फूर्तिसाक्षात्कारयोर्भ्रमः पञ्चभिः। ततः पुनदर्शनप्रार्थनं सप्तभिः। ततः साक्षाद्दर्शनाद्वाङ्मनसागोचरत्वेन तद्वर्णनमष्टाविंशत्या। ततस्तेन सहोक्तिः प्रत्युक्तिः सप्तदशभिरितिः क्रमः। तत्रादौ तया सह निभृत-लीलोत्कण्ठ्या सर्वसमाधानार्थ बाहुप्रसार (भा. 10/29/46) इत्यादिवत् तथा तस्या स्तासां च तदुत्कण्ठा वर्द्धयितुमुत्तम्भयन रतिपतिम्। इत्यादिवच्च ताभिः सह विलसतस्तस्य स्फूर्त्या स्वसमानसखीः प्रत्याह बर्होत्तंसेत्यादि। प्रथमं तल्लावण्यच्छटोच्छलित-तद् भूषणाम्बर-गोपीलावण्य-भूषणादिज्योतिः पुञ्जं निर्विशेषतयानुभूयेव जाताह्लादो लोभात्संभ्रममाह-इदं ज्योतिः स्वपरप्रकाशकं मनोनेत्ररसायनं वस्तु नश्चेतसि चकास्त। ईषद्विशेषस्फूर्त्याह– कुण्डल-मण्डिगण्डाधर-स्मितादीनां माधुर्ये तत्प्रवाहे मग्नं कृतमञ्जनमाननं यस्य तत्। समग्र-विशेष-स्फूर्त्याह– प्रकर्षेणोन्मीलन्नव-यौवनं चरमकैशोरं यस्य तत्। तथा, वह बर्होत्तंसस्य यो विलासो नृत्यगत्या मन्दानिलेन चान्दोलनं तद्युत्कतः कुन्तलभरस्तत्कलापो यस्य। तथा, स्वरालापादिभंगीभिः प्रकर्षेण विलसन्तो ये वेणोः प्रकृष्टा नादास्त एवातिमधुरत्वाच्छुष्क– स्थावरदिजीव दत्वाच्छमृतानि यस्मिन्। तथा, गोपी-भिरभितश्चुम्ब-नालिंगनादिभिरा-राधितं, सेवितम्। आपीनानि स्तनकुड़मलानि यासां ताभिः। तथा, जगतां तत्सपर्शतृष्णयाभितः कुटिलं भ्रमन्तीनां तासां मध्य एकस्यां श्रीराधायामभि सर्वतोभावेन यो रामो रमणं तेन पश्यतां स्मरतां चाद्भुतं चमत्कारकम। तया सह मिथः स्कन्धन्यस्तहस्ततया कृतनृत्यात्वात्। बाह्ये- तान्प्रत्येवाह। अर्थः स एव। किम्बा त्रिजगतां यदेकं प्रधान-मभिराममद्भुतञ्च तत्।।।4।। |
टीका टिप्पणी और संदर्भ
- ↑ (तत्रैव) इतिवत्।
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज