श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
सारंगरंगदा
ननु ईश्वरः सर्वभूतानां हृद्देशे[1]इत्यादौ तमेव प्रतिपद्यस्वेत्यादि- गीतादिशास्त्रोक्त भजनीयमीश्वरं हित्वा किमिति गोपकुमारं मामेव सर्वोत्तमत्वारोपेण स्तुवन्नाश्रयसीति तत्तद्भावविवशः सहस्तचालनमाह- हे विभो सर्वावतारिन्, यस्मिंस्त्वच्चरिते भुवनं भवनं सर्वान्तर्यामित्वादाश्रयः। तत्ततोऽप्यनुमेयै- श्वर्यमयचरित्राद्भुतादृश्यमानस्य तदेवं नेत्ररसायनं चरितं विचित्रमुत्तमम्। यद्वा, तदपि त्वच्चरितं तादृशं न भवतीति को नाम विवदते। तदपीति- इदन्तु विचित्रमद्भुत- मेवेत्यपेरर्थः। एवमग्रेऽपि ज्ञेयम्। नन्वेवं चेतर्हि दृश्यैश्वयां विष्णुवामनाजितादयः सन्ति, तानेव भजेति सस्मितमाह- यत्र सुरेंद्रा इन्द्रादयः परिचारपरम्परा अनुगा इत्यर्थः। ततोऽपि युद्धादिमयपालनकेलि- रूपात्यद्भुताच्चरितादिदं त्वच्चरितं मधुरैश्वर्यमयं विचित्रमत्युत्तमम्। ननु युद्धादिविमुखो गर्भोदकशायी पुरुषोऽस्तीत्यधो- नेत्रचालनमाह- यत्र तामरसासनो ब्रह्मा तनयस्ततोऽपि सृष्ट्यादिकेलिरूपादति- वाद्भुताच्चरितादिदं मधुररसमयं त्वच्चरितमति सर्वोत्तमम्। ननु त्वं मधुररस- रसिकभक्तोऽसि, तत्परमव्योमेशं लक्ष्मीशं भजेति सोर्द्धभ्रूचालनमाह- यत्र श्रीरेका विलासिनी ततोऽपि मधुररसमयाद- तिसर्वाद्भुतराच्चरितादिदं नायं श्रियोंऽग[2]इत्यादि संस्तुतविलासिनी- कोटिविलासवलितं त्वच्चरितमति- सर्वोत्तमतरम्। नन्वेषं चेतर्हि रुक्मिण्यादिरमणं मामेव भजेति सशिरश्चालनमाह- यत्र स्मरश्च तनयः। चकारात् साम्बादयः। ततोऽपि स्वीयाभिर्दशदशपुत्रवतीभिः संख्याताभिस्ताभिः सह केलिरूपादतिसर्वाद्भुतादद्भुततमा-च्चरितादिदं परकीयासंख्य- नृत्यत्- किशोरीकुलैः सह रासादिकेलिमयं त्वच्चरितमति- सर्वोत्तममेव मया सेव्यमिति भावः।
|
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज