यद्वा, आर्द्र सरसं स्मितं यासां ता राधाद्या गोप्यस्ताभिः कृत्वार्द्रं रसभरेण वुडितं यद्वदनं तदेवाम्बुजं चंद्रबिम्बं वा यत्र तत्। पुनः कीदृशम्- शिञ्जानोति। शिञ्जानैः स्वनं कुर्ब्बद्भिर्भूषणैर्नुपूर किंकिणी- केयरादिभिश्चितं ब्याप्तम्। पुनः कीदृशम्- शिखिपिञ्छेति। शिखिपिच्छं मौलो चूडारूपसयत- विचित्रकुसुमशोभित – केश-कलापे यस्य तत्। शिखिपिञ्छयुक्तो मौलिः किरीटं यत्र वा तत्। एतेन गोपवेश- माधुर्य सूचितमिति।।70।।
सुबोधनी
ततोऽपि निकटमायान्तमालोक्य सहर्षमाह- विलोचनयो रसायनं सौन्दर्यामृतपानपात्रं सम्मुखमायाति। तदागमनं विवृणोति- आन्दोलितौ भुजाग्रौ यस्य। अतः शब्दायमानैः कंकणनूपुरादिभिश्चितम्। स्वस्मिन् कारुण्यस्फूर्त्याह- करुणयाकुले नेत्रे यस्य। तत्राश्चर्यमाह- स्निग्धस्मितेनार्द्रं यद्वदनं तदेवाम्बुजं चंद्रबिम्बं च यत्र। अतः शीतम्। शीतत्त्वादम्बुजत्वम्, रसायनत्वादिन्दुत्वम्। सर्वत्र हेतुः- शिखिपिञ्छैर्मौलिर्यस्य।।70।।
सारंगरंगदा
काचित् कराम्बुज शौरेरित्यादिवत् ताभिर्मिलित्वा नृत्यन्तमिवागच्छन्तं तं विलोक्य नैत्रातितृप्त्या सहर्षमहा, - इदं शीतं विलोचनयो रसायनमभ्युपैति पुरत आयाति। कीदृशम्? तासां स्पर्शोत्थकम्पात् सनृत्यगत्या चान्दोलितावग्रभुजौ यस्य। करुणयाकुले पूर्ववल्लोले च नेत्रे यस्य। आर्द्रस्मितेनार्द्रं वदनाम्बुजचंद्रबिम्बं यस्य। तत्र तासां दर्शनान्दोत्- फुल्लत्वात् सुरभित्वाच्चाम्बुजत्वम्। शैत्यमाधुर्यकान्त्यादि – भिर्नैत्रप्रीणनत्वाच्चन्द्रत्वम्। शिञ्जानानि यानि कंकणनूपुरादिभुषणानि तैश्चितम्। अनेन श्रोत्रानन्दनत्वं चोक्तम्। शिखिपिच्छैर्मौलिर्यस्य।।70।।
‘आस्वादबिन्दु’ टीका
सारंगरंगदा टीका का आस्वादन कीजिए। रास में अन्तर्धान के पश्चात् साक्षात् मन्मथ-मन्मथरूप में श्रीकृष्ण को आते देखकर सभी गोपियाँ हर्षोत्फुल्ल नेत्रों से एक साथ उठ खड़ी हुईं- ठीक उसी तरह जैसे प्राणों के देह में लौट आने पर हाथ-पैर आदि सभी अवयव सहसा हर्षोफुल्ल हो उठते हैं। इसके पश्चात्-
- “काचित् कराम्बुजं शौरेर्जगृहेऽञजलिना मुदा।
- काचिद्दधार तद्वाहुमंसे चंदनरूषितम्।।
- काचिदञजलिनागृह्रात् तन्वी ताम्बूलचर्वितम्।
- एका तद्गिंकमलं सन्तप्ता स्तनयोरधात्।।”[1]
|