श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
स्तम्भोपलक्षित सात्त्विकभावयुताः करोतीत्यर्थः। यद्वा, चातुर्यमेकं मुख्यं निदानं कारणं तस्य सीमा अवधिभूता याश्चपलापांगच्छटाः। चपलावद्विद्युदिव वर्तमानानां गोपसुन्दरीणाम-पांगास्तेषां छटास्तरंगाः। छुट छेदार्थः (धा. 6/84)। औणादिकाप्रत्यये उदच्चेति उकारस्याकारः सिद्धः। ताभिर्मन्थरं मन्थानद्रव्यवत्संक्षुब्धम्। एतेन लीलाविग्रहस्य दधिपात्रता ध्वन्यते।
इति मेदिनी (रान्तः 198)। अथवा, चातुर्यस्यैकं निदानं व्रजसुन्दरी– संघस्तस्मिन्सीमा, अर्थाद् राधा, तस्याश्चपला-पांगच्छटामन्थरम्। सीमा त्वादिपुराणे-
इति। पुनः कीदृशम्- लावण्या-मृतवीचिलोलितदृशम्। लावण्यमेवामृतं तस्य वीचिभिस्तरंगैर्लोलिते विमर्दिते दृशौ यस्य। यद्वा, लावण्यामृतस्य वीचिर्ययोस्तादृश्यौ लोलिते च दृशौ यस्य तम्। लुल विमर्द्दे सौत्रः (धा. 1/336)। णिचि सिद्धम्। अत्र स्निग्धा दृष्टिः यथा (संगीतरत्नाकरे 7/397)-
लावण्यलक्षणं यता भक्तिरसामृतसिन्धौ-
पुनः कीदृशम्- लक्ष्मीकटाक्षादृतम्। लक्ष्मीः श्रीराधा उक्तञ्च मत्स्यपुराणे (13/26, 35, 38)- |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज