|
ने केवलं गतमधीरम्- अमन्दं गाढमालिंगनञ्च। कीदृशम्- आकुलोन्मदस्मितम्। आकुलयतीत्याकुलमुन्मदयत्युच्चैर्मदयति हर्षयतीत्येवम्भूतमुन्मदं स्मितमीषद्धास्यं यस्मिंस्तत्।।27।।
सुबोधनी
स्वप्रार्थितमेतत् सर्वं तत् प्रियसखीजनानुगत्यधीनमिति विचिन्त्य तदेकवेद्यतयानुर्णयन्नाह- हे नाथ! ते धैर्यरहितमालोकितं गोपिका राधिकासख्य एव जानन्ति, न त्वन्याः। स्वसखीविषयक भावाभिव्यञ्जकतया तदेकगम्यमित्यर्थः। किञ्च, तदर्थमार्द्रेण स्निग्धेन सह तव जल्पितमान्यापदेशेन कथनम्। अन्यदपि- गम्भीरोऽवगाहितु मशक्यो यो विलासोऽत्या- वेशवैवश्यं तेन मन्थरं गमनञ्च। तथा, प्रियनर्मसखीषु गाढ़ालिंगनम्। आकुलमुन्मदं यत्स्मितं तच्च। अत्यावेशेन चेतसो विकाशात् स्मितस्य व्याकुलतोन्मदत्वेनोक्तिः। एतज्जन्यसुखानां तदेकवेद्यत्वात्तत्- प्रसादलभ्यमे- वैतदिति तात्पर्यम्।।27।।
सारंगरंगदा
इतः परं श्रीराधाया उन्मादावस्थोत्थोत्थप्रलापा- नुवनदं यावत् कृष्णदर्शनम्। तत्र प्रथमं तस्याश्चित्रजल्पाख्यप्रलपितमनुवदन्नाह पञ्चभिः श्लोकैः। अथान्या व्रजदेव्यो, ‘जयति तेऽधिकं जन्मना’ (भा. 10/31/1) इत्यादिवत्तद्गुण- गानालम्बना वभूवुः। श्रीराधा तु मूर्छन्ती सखीभिः श्रीकृष्णकण्ठमालां नासायां न्यस्य प्रबोधिता। तथा, अपि सरले शठस्यातिदुःखदां चिन्तां विहाय क्षणं सुखिनी भवेति सखीवचनात्तथा प्रयत्नं कुर्वती, ताभिर्वर्णिततद् गुणश्रवण- विकला, एता वारयतेति सखीः प्रति कथयन्त्येव दिव्योन्मादोन्मत्ता पुरः स्थितं स्वकुचघुसृणा- ञ्चितमप्यन्यासंभुक्तं प्रिये तव मद् गुण- गानश्रवणादागतोऽस्मि प्रसीदेत्यनुनयन्तमिव तं मत्वा सैर्ष्यौंदासीन्यं स्वाभिज्ञत्वप्रकाशं यत् प्रललाप तदनुवदन्नाह- हे नाथेत्यौदासीन्येन। गोपिका एव, निन्दार्थे क-प्रत्ययः। एता अविदग्द्या एव तेऽधीरं सर्वत्यागेना- श्रितायामपि कस्याञ्चित् स्थैर्यरहितम्, आ ईषल्लोकितम्। अधीरं मदिरनर्तनमिव मनोज्ञम्। ‘शरदुदाशये’ (भा. 10/31/2) इत्यादिना वदन्ति गायन्ति। विदन्तीति पाठे-जानन्ति। तथा, धूर्तस्य ते जल्पितम् आ ईषदार्द्रम्। व्याधानामिव मुख एवार्द्रंयज्जल्पितं गम्भीरविलासेन पूतनावधवासनैधित- स्त्रीवधेच्छास्वरूपेण मन्थरं स्थगितमपि स्निग्धगम्भीरनर्मसूचकशब्दार्थध्वनिरूपविलासेन मन्थरं वदन्ति ‘मधुरया गिरा’ (भा. 10/31/8) इत्यादिना गायन्ति। उक्तञ्च-
मुखं पद्मदलाकांर वाचः पीयूषशीतलाः।
- हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम्।।इति।।
|
|