श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
दधति धास्यन्ति। अविच्छिन्न- संतोषधारां कुर्युरित्यर्थः। कीदृशा निनदाः- कन्दर्पप्रतिभट जटाचन्द्रशिशिराः। कन्दर्पप्रतिभटः श्रीरुद्रस्तस्य जटावर्ती यश्चन्द्रः स हि तुहिनगिरिनिस्यन्दि मन्दाकिनीनिर्धराप्लुतोऽति-शीतलस्ततोऽपि शिशिराः। मुरलीकेलि- निनदाः। महादूरन्तसन्तापनिर्वापका इत्यर्थः। हरशिश्चन्द्रस्य गंगासंगादति-शीतलत्वं कलामात्र- प्रसिद्धत्वानि- नादस्य सूक्ष्मत्वं चोक्तम्। नादः पञ्चधा- अतिसूक्ष्मश्च सूक्ष्मश्च पुष्टोऽपुष्टोऽथ कृत्तिमः (संगीतरत्नाकरे 1/3/5) इति। तेन कन्दर्पदमनत्व-शीतलत्व- सूक्ष्मत्वानि व्यंग्यानि।।26।। सुबोधनी सारंगरंगदा
इतिवत्। इदानीं म्रियामहे कदा वा ते कटाक्षा लक्षिष्यन्ते, ते वा कदा तोषं धास्यन्तीति नैराश्योक्तिः। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज