मादकविशेषाद्धि मद-विकार-विशेषा भवन्ति। तद्रूपो यः श्रृंगारः, श्रृंगाररसमयविलासस्तेन संकुलितो व्याप्तः शीतश्च महादुरन्त- कामोपताप- निर्वापकः। एवम्भुतश्चासौ किशोरवेषश्च किशोर-वयोविशिष्टाकार- वांस्तम्। यद्वा, श्रीकृष्णस्य माधुर्यमेव वारिधिः व्रजसुंदरीणां मद एवाम्बु सौभाग्ययौवना- द्यवलेपरूपम्, तयोर्ये तरंगभंग्यौ ताभ्यां यः श्रृंगारस्तेन संकुलितः सम्पूरितः। अन्यत् पूर्ववत्।
- सर्वावस्थाविशेषेषु माधुर्यं रमणीयता।
- मदो विकारः सौभाग्ययौवनाद्यवलेपजः।।[1]
पुनः कीदृशम्- आमन्दहासललिताननचन्द्रमिम्बम्। आ ईषन्मन्देनहासेन स्मितेनेत्यर्थः ललिंत मनोहरमाननं चंद्रमण्डलं यस्य तम्। आ समन्तान्मन्दहासस्य ललितं विलासो यस्मात्तादृश आननचंद्रो विम्बभूतो यस्य तम्। लुलिताननचंद्र बिम्बमिति पाठे लुलितो विमर्दितः, व्याप्त इति यावत्। पूर्ववदयन्त्।।14।।
सुबोधनी
पुनस्तन्माधुर्यसमुद्रस्य पारावररहितत्त्वमनुभवन्मनोऽवगाहनमात्रं प्रार्थयते- मे मम मन आनन्दसंप्लवं सर्वप्लावकानन्दपूरमनु- निरन्तरं प्लवतां निमज्जनोन्मज्जनादिभिरत्रैव क्रीडताम्। तदुपपादयन्नाह- आ ईषन्मन्दहासेन ललित-माननचंद्रबिम्बं यस्य। प्रियापांगालोकोद्यन्मनोविकाशान्मन्द- हासितमिदम्। अतएवास्यचंद्राशूच्छलितो यो माधुर्यवारिधिस्तत्रोद्गतो यो मदो जगन्मोहकता स एवाम्बु। मनोनयनाद्रीकरणात्। तस्य ये तरंग अधिकाधिकोच्छलनानि तैर्या भंगी परिपाटी तत्र तादृशेन श्रृंगारेण श्रृंगाररसेन संकुलितो व्याप्तोतएव शीतः सर्वतापोपशमकः किशोरोचितो वेषो यस्य।।14।।
सारंगरंगदा
तथा सस्मितमुखोद्रतभावादिना तां प्रेरयन्तं तदानन्दोच्छलितं तं वीक्ष्य सहर्षमाह- इदमानन्दसंप्लवं सर्वाप्लावकोच्छलितानन्दप्रवाहं मे मनोऽनु प्लवतामुन्मज्जननिमज्जनादिभिरत्रैवाक्रीडताम्। कीदृशम्-आमन्दोऽतिमन्दस्तयैव गम्यो यो हासस्तेन ललितमाननचंद्रबिम्बं यस्य। तथा, तच्चन्द्राशूच्छलितो यो माधुर्यवारिधिस्तत्रोद्गता ये कन्दर्पमदास्त एवाम्बुतरंगा यास्मिन्। तादृशश्च भंग्या यः श्रृंगारो वेशरचनं तेन संकुलितो युक्तश्च शीतः सर्वतापहरश्च किशोर वेशस्तद्वपुर्यस्य। वेशो वपुषि चेति कोषात्। तत्तरंग भंग्यैव श्रृंगारो वा। तत्तंगभंगीश्रृंगाराभ्यां संकुलित इति वा।। बाह्यो- सम एवार्थः।।14।।
|