सुबोधनी
अथ वृन्दावनं प्रविश्य साक्षाच्छीकृष्णं विलोक्य प्राग्वत् स्फूर्तिशंकया सवितर्कमाह- नु किं मारः स्वयमागतः। य आत्मानं स्फोरयित्वा मां मारयति स एवागतः किमिति वितर्कः। न, स निर्दयोऽतिकठिनः कथामागच्छेत्। मधुरद्युतिमण्डलं भु। मूर्त्ततयैतदपि न। माधुर्यमेव नु। तद्धर्म एव मूर्तिमानित्यर्थः। तस्य नेत्रमात्र-विषयत्वात्तदपि न। मनोनयनोरमृतं तदाह्लादकं किमपि। स्वस्य तदनन्यविषयत्वमवधाय निश्चिनोति-श्रीराधाय वेणीं मार्ष्टीति वेणीमृजः प्रोष्यागतः कान्तः स एव नु। अतएव जीवितस्य वल्लभोऽयं किशोरो मल्लोचनाय मल्लोचनमानन्दयितुमुदयते।।68।।
सारंगरंगदा
अथ श्रीवृन्दावनं प्रविष्टे तस्मंल्लीलाशुके श्रीकृष्णः, ‘तासामाविरभूत्’[1] इतिवत्तासां मध्ये आविर्भूतस्तल्लीलाविशिष्ट एव तस्याग्रेऽप्याविरभूत्। स च तं विलोक्य स्वयं जाततत्तद्भ्रमोऽपि तस्याः श्रीराधाया अस्माकं तद्दर्शनभाग्यं नास्त्येवेति सखीभिः सह रुदत्या अकस्मात्तं किञ्चिद्दूरे विलोक्य भ्रमबाहुल्येन प्रलपन्त्या वचोऽनुवदन्नाह प्रथमं दर्शनादेव विरहविक्लवा कन्दर्पभ्रान्त्या सभयमाह- यस्तावददृश्य एव जगन्मारयति स मारः स्वयमागतः किम्। नु वितर्के। पुनर्माधुर्यमनुभूय साश्चर्यमाह- स तावदीदृङ् मधुरो न भवति। तदिदं मधुरद्युतीनां मण्डलं नु किम्। पुनरत्याश्चर्यमाह- न तदेतत्। किन्तु माधुर्यमेव नु। तद्धर्म एव परिणतः सन्नागतः किम्। पुनर्मनोनयनयोरतितृप्त्या ससंतोषमाह- मनोनयनयोरमृतं तद्रूपमिदं नु किम्। पुनरवयवमनुभूय ससम्भ्रममाह- वेणीभृजो नु। वेणीं मार्ष्टि उन्मोचयतीति वेणीमृजः प्रोष्यागतः कान्तः स एवायं किम्। पुनः सम्यगवलोक्य सानन्दमाह- नु भोः सख्यो मम जीवितवल्लभोऽयं बालो नवकिशोरो मम लोचनाय तदानन्दयितुमभ्युदयते। यूयं पश्यतेति शेषः।। स्वान्तर्दशायां तु- तदनुगत्यैव व्याख्येयम्।। बाह्येऽपि स एवार्थः निश्चयान्तसन्देह-नामायलंकारः।।68।।
‘आस्वादबिन्दु’ टीका
श्रीलीलाशुक[2] श्रील कविराज गोस्वामिपाद कहते हैं- इसके पश्चात् लीलशुक वृन्दावन में प्रविष्ट हुए, तो श्रीकृष्ण उनके आगे आविर्भूत हुए। “तासामाविरभूच्छौरिः स्मयमान मुखाम्बुजः। पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः।”[3] साक्षात् मन्मथ के भी मन्मथ सहास्य वदनकमल पीतवसनधर वनमाली श्रीकृष्ण उन रोदनपरायण गोपियों के बीच आविर्भूत हुए- श्रीलीलाशुक इस रूप में श्रीराधा और गोपियों के समक्ष आविर्भूत रासलीलामय श्रीकृष्ण को सामने देख पाये। इधर श्रीकृष्ण को साक्षात् देखकर भी श्रीराधा भ्रम उत्पन्न होने के कारण यह सोचकर कि श्रीकृष्णदर्शन का भाग्य हम लोगों का नहीं है सखियों के साथ रोदन कर रही हैं; इसी समय कुछ दूरी पर श्रीकृष्ण को देख पाकर भ्रमबाहुल्य वश वे प्रलाप कर रही हैं। लीलाशुक इस श्लोक में उसी का अनुवाद कर रहे हैं।
|