- अग्रे समग्रयति कामपि केलिलक्ष्मी-
- मन्यासु दिक्ष्वपि विलोचनमेव साक्षि।
- हा हन्त हस्तपथदूरमहो किमेत-
- दाशाकिशोर- मयमम्ब जगत्त्रयं मे।।60।।[1]
अन्वयः – अग्रे (मम पुरः) कामपि केलिलक्ष्मी समग्रयति (सम्यक् प्रकाशं करोति) अन्यासु दिक्षु अपि, (ननु तदेकं कथं सर्वत्र भवत्विति?) विलोचनमेव साक्षि हा हन्त (खेदे) हस्तपथदूरम् अहो किमेतत्? अम्ब! (इति आकाशे विषादे सम्बोधनम्) आशाकिशोरमयं जगत्त्रयं मे जातम्।।60।।
अनुवाद- श्रीकृष्ण मेरे आगे कैसी आश्चर्यजनक केलिशोभा का विस्तार कर रहे हैं। और सभी दिशाओं में वही शोभा देख रही हूँ। मेरे चक्षु ही इसके साक्षी हैं। हाय हाय ! पकड़ती हूँ तो ये एक हाथ दूर रह जाते हैं। ओमां ! यह क्या हुआ ! तीनों लोकों में सर्वत्र ही किशोरमय देख रही हूँ।।60।।
कृष्णवल्लभा
अहो चित्रं विचित्रमित्याद्यनुभव- सुखमनुभूय तादृशश्रीकृष्णम- परोक्षमिवान्तर्वहिः सर्वत्र पश्यञ् श्रीकृष्णशक्तिं परमानुग्रहमयीं प्रति त्वत्प्रसादान्ममैवं जातमिति निवेदयति अग्र इति। अम्ब मातः श्रीकृष्णरसमग्नोपलालन – कर्तृतदनुग्रहशक्ते भवत्या एव प्रसादात् सम्प्रति जगत्त्रयं मे ममाशाकिशोरमयम्। आशामयकिशोर स्ततस्वरूपेण परिणतम्। विपरिणामे – मयट्। स्वरूपतः स्फरणमात्रं न, किन्तु केलिविशिष्ट त्येत्यत आह- अग्र इति। अग्रे पुरतः कामप्य निर्वचनीयां केलिलक्ष्मीं क्रीडासम्पदं समग्रयति समग्रां संपूर्णां करोति। न केवलं पुरतः अन्यासु सर्वासु दिक्ष्वपि। दिशासु सम्पूर्णां दर्शयतीत्यर्थः। अत्र प्रमाणं किं प्रत्यक्षमेवे-त्यत आह- मे मम विलोचनमेव साक्षि। तर्हि कथं खिद्यसे, तत्राह-हा हन्तेति खेदे। अहो हस्तपथदूरं हस्तपथाद्दूरं किमेतत् किमिदमिति वितर्के। न जानामीति शेषः।।60।।
सुबोधनी
अतः साक्षात्तं मत्वा सविचारमाह- अहो एतत् किम्। पुनर्निरीक्ष्याह- ममाग्रे कामपि केलिलक्ष्मीं सम्यक्करोति। न केवलमग्रेऽन्यासु दिक्ष्वपि। एकोऽनेकत्र कथं स्यात्- विलोचनमेव साक्षि। प्रत्येक्षे कः संदेहः। पुनरुत्कण्ठ्या ग्रहीतुं बाहुं प्रसार्य सविषादमाह- हा खेदे, हन्त विषादे, हस्तपथाद्दूरम्। ततः स्फूर्त्यपगमे सवितर्कमाह- हे अम्ब, इत्याकाशे सविषादसम्बोधनम्। ममाशयैव किशोरमयं जगत्रयं कथमभूत्।।60।।
|