श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – नु (भोः कृष्ण !) अश्रान्तस्मितमरुणा- रुणाधरोष्ठम् (अश्रान्तं सततं स्मितं प्रकाशः यस्मिन् तत्र तत्र हेतुः अरुणादपि अरुणौ अधराष्ठौ यत्र तत्) हर्षार्द्रद्विगुण-मनोज्ञवेणुगीतम् (हर्षार्द्रमतएव द्विगुणं मनोज्ञं वेणुगीतं यत्र तत्) विभ्राम्यद्विपुलवि लोचनार्द्ध मुग्धम् (विशेषतः भ्राम्यतोः चञ्चलतया उत्फुल्ल- विलोचनयोः अर्द्धेन अपांगनिरीक्षणेन मनोहरम्) तव वदनाम्बुजं कदा वीक्षिष्ये (विशेषेण द्रक्ष्यामि)?।।44।। अनुवाद- हे कृष्ण ! मैं तुम्हारा वदनकमल कब देख पाऊँगा? वदनकमल, जो सदा मृदुहास्य से उद्भासित अरुणवर्ण अधर-ओष्ठ से समन्वित है, जो आनन्दन्सिग्ध वेणुगीत से दुगुना मनोहर हो रहा है, और जो विभ्रमशाली अर्धविकसित सुन्दर विशाल नयनों से युक्त हैं।।44।। कृष्णवल्लभा अथात्यपूर्वमाधुरी- चमत्कारभरं विभ्रच्छीकृष्णमुखा- म्बुजं द्रष्टुमाशास्ते- अश्रान्तेति। न्विति पृच्छायाम्। भो नाथ कदा तव वदनाम्बुजं वदनकमलं वदनचंद्रं वा “अब्जो जैवातृकः सोमः” इत्यमरः[2] वीक्षिष्ये विशेषेण द्रक्ष्यामि। कीदृशम्- अश्रान्तस्मितम्। अश्रान्तमनवरतं स्मितं यत्र तत्। अतिशयानन्दोदयात्। पुनः कीदृशम्- अरुणारुणाधरोष्ठम्। अरुणादप्यरुणमत्यरुणमिति वीप्सायां द्विर्भावः। ओष्ठाधरमधरोष्ठं यस्य तत्। अरुणवदरुणं वा। पुनः कीदृशम्- हर्षार्द्रद्विगुणेति ! हर्षेणार्द्रं स्निग्धमतएव द्विगुणं मनोज्ञं मनोहरं वेणुगीतं वशीरवविरचित-विविधगान- विशेषो यत्र तत्। यद्वा, हर्षेणार्द्रः स्वेद- सात्त्विकभावात्ततश्च द्विगुणमनोज्ञो यो वेणुस्तस्य गीतं यस्मिंस्तत्। पुनः कीदृशम्- विभ्राम्यद्विपुल-विलोचनार्धमुग्धम्। विभ्रमतोर्वैद- ग्धीपूर्वं भ्रमतोर्विपुलयोर्विशाल- योर्विशिष्ट- लोचनयोर्यदर्द्धं तेन मुग्धं मनोहरम्। विलोचनार्द्रमिति पाठे- विभ्राम्यद्भ्यां विपुलाभ्यां विलोचनाभ्यामान्द्रञ्च तन्मुग्धञ्चेति। आर्द्राद्रेति पौनरुक्त्यं न दोषः, औत्सुक्यात्।।44।। |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज