- मुकुलायमान – नयनाम्बुजं विभो
- र्मुरलीनिनाद- मकरन्द – निर्भरम्।
- मुकुरायमाण – मृदुगण्डमण्डलं
- मुखपंकजं मनसि मे विजृम्भताम।। 6।।[1]
अन्वयः– मुकुलायमाननयनाम्बुजम् (मुकुले इवाचरतः नयनाम्बुजे यस्मित् तत्) मुरलीनिनादमकरन्दनिर्भरम् (मुरलीनिनादः एव मकरन्दः तेन पूर्णम्) मुकुरायमाणमृदुगण्डमण्डलम् (मुकुरे इवाचरतः मृदुनी कोमले च गण्डमण्डले यस्मिन् तत्) विभोः (श्रीकृष्णस्य) मुखपंकजं मे मनसि विजृम्भताम् (प्रकाशताम्)।। 6।।
अनुवाद- श्रीकृष्ण का मुखकमल मेरी मानससरसी में सदा ही विकसित रहे। उनके नयनकमल मानो दो मुकुलों के तुल्य हैं। वंशीनिनाद ही इस कमल का मकरन्द है! मृदु गण्डस्थल मानो मुकुर (दर्पण) के समान हैं! विभु का यह मुख पद्य मेरे चित्त-सरोवर में शोभित हो।।6।।
कृष्णवल्लभा
अपि च, विभोस्तस्यैव सकलसौन्दर्य-निधेर्मुखपंकजं मे मनसि विजृम्भतां प्रकाशताम्। एतेन निजमनसः सरोरूपता व्यज्यते। तद्विशिनष्ट मुरलीनिनादमकरन्दनिर्भरम्। मुरल्या निनाद एव मकरन्दस्तेन निर्भरं पूर्णम्। अन्यदपि पंकजं मकरन्दभरितं भवति। यद्वा, मुरलीनिनादमकरन्देन नितरां विभर्ति पोषयति। निजपरिवारमानन्दयतीत्यर्थः। पुनः कीदृशम्- मुकुलायमाननयनाम्बुजम्। मुकुलायमाने मुरलीनिनादविशेष-संजातातितोष-तस्तत्तदानन्देन मुकुलप्राये भवती नयनाम्बुजे यस्य। अम्बुजसमानतया स्वमुखस्य चन्द्रता ध्वन्यते। चंद्रसंबंधादम्बुजस्य मुद्रणमुचितमेव। पुनः कीदृशम्-मुकुरायमाण-मृदुगण्डमडलम्। मुकुरायमाणे दर्पणप्राये प्रतिबिम्बिग्राहित्वान्मृदुनी कोमले गण्डमण्डल यस्य। दर्पणे मुकुरादर्शो (2/6/140) गण्डौ कपोलावित्यमरः (2/6/90)।।6।।
सुबोधनी
अथ तन्मुखाब्ज एव लग्नमनस्कतयातदाविर्भावं प्रार्थयते- विभोर्मुखपंकजं मे मनसि विशेषेण प्रकाशताम्। विभोर्मुखपंकजमित्यनिर्वचनीयत्वम्। पंकजत्वं व्यनक्ति- मुरलीनिनाद एव मकरन्दस्तेन पूर्णम्। पुनरप्य- निर्वचनीयत्वमाह- मुकुले इवाचरती नयनाम्बुजे यस्मिन्। अनेन विलासरसमग्नत्वं ध्वनितम्। अब्जेऽब्जद्वय-भावा-दद्भुतोपमेयम्। न केवलमिदमन्यदपि – मुकुरे, इवाचरती प्रतिबिम्ब-ग्राहिणी कोमले गण्डमण्डले यस्मिन्। प्रथमपद्ये प्रकाशताम्, द्वितीये चिरम्, तृतीये विशेषेणेति क्रमेणोत्कण्ठा-धिक्यमेवोक्तम्। एवमग्रेऽपि।।6।।
|