- चिकुरं बहलं विरलं भ्रमरं
- मृदुलं वचनं विपुलं नयनम्।
- अधरं मधुरं वदनं मधुरं
- चपलं चरितञ्च कदा नु विभोः।।61।।[1]
अन्वयः – विभो (एतद्दुःखहरण समर्थस्य) बहलम् (स्निग्धनिविड़म्) चिकुरम् (कदा चूड़ात्वेन वध्नामि) विरलं भ्रमरम् (अलिपंक्तिवत् पृथक् पृथक् स्थितं ललाटालकं कदा उद्यच्छामि) मृदुलं वचनम् (कदा श्रोष्यामि) विपुलं नयनम् (कदा द्रक्ष्यामि) अधरं मधुरम् (कदा पास्यामि) मधुरं वदनम् (कदा चुम्बिष्यामि) चपलं चरितम् (कदा अनुभवामि)।।60।।
अनुवाद- विभु श्रीकृष्ण का स्निग्ध निविड़ केशपाश चूड़ा- आकार में कब बाँधूँगी, भ्रमर की तरह ललाट पर गिरी चूर्णकुन्तलराशि (लटें) यथास्थान कब रखूँगी, कब सुनूँगी मृदुवचन और कब देखूँगी विपुल नयन, कब मधुर अधरसुधा पान करूँगी, कब चुम्बन करूँगी मधुर वदन, और कब अनुभव करूँगी उनका चपल चरित्र?।।61।।
कृष्णवल्लभा
एवं यदि हस्तपथदूरे तदा कथमभिलाषः सम्पत्स्यतामिति स्वप्राणनाथ-निभृत-सेवामाशास्ते चिकुर-मित्यादि। विभोः श्रीकृष्णस्य, न्विति वितर्के प्रश्नो वा। कदा बहलं समृद्धं चिकुरं बालं विचित्र शिखिपिञ्छ-कुसुम रचनादिना। रचयामि विभोरित्युक्त्वा केलिस्फुरण-रसवैवश्यात् क्रियापदोक्त्यभावः। इदमिदमंगमित्थमित्थं सेविष्ये इति मनोरथ-परंपरा कथमेकक्रियया स्फुटीभविष्यतीति क्रियापदोक्त्यभावो वा। तत्र केशकुसुम- लोभेनायस्यन्तीं भ्रमरवाधामनूस्मृत्याह- विरलं विरलीभू वर्तमानं भ्रमरम्। सौगन्ध्यलोभेन मुखाम्बुजे पतन्तं कदा समुत्सारयामीत्यर्थः। तन्निरसनार्थं मृदुलं वचनं कदा श्रोष्यामि। न केवलमवादीत्, किन्त्वद्राक्षीच्च, तदनुस्मृत्याह – विपुलं महन्नयनम्। सद्यः समुच्छलित – महानन्दाम्बुधिकल्लोलान्दोलितं कदा द्रक्ष्यामीत्यर्थः। मृदुलवचन – सानुरागदर्शनान्तरं स्नेहरसेन योऽधरस्पन्दो जातस्तमनु-स्मृत्याह – मधुरमधरं कदा वंशीसहितमवलोक- यिष्यामि। वदनं दृष्टिवांगमाधुर्य-विशेषवत्तया मधुरं कदा द्रक्ष्यामि। तदनु यच्चपलं चरितं तच्चेति। एवमुक्त्वा दीर्घं निश्वस्य च तथैवाशया स्थितमिति भावः।।61।।
|