- सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं महः।
- निर्विशन्नयनं हन्त निर्वाणपदमश्नुते।।83।।[1]
अन्वयः– सर्वज्ञत्वे च मौग्ध्ये च इदं सार्वभौमं महः हन्त (आश्चर्ये) नयनं निर्विशद् निर्वाणपदमश्नुते।।83।।
अनुवाद- सर्वज्ञता और मुग्धता में सार्वभौम यह तेजः पुञ्ज मेरे नयनों में प्रविष्ट होकर परमानन्द रूपप्राप्त कर रहा है।।83।।
कृष्णवल्लभा
अथ परमानन्द- साम्राज्य-परमसीमामनुभवन्न-भिलषति सर्वज्ञत्व इति। इदं पुरः स्फूरच्छ्रीकृष्णाख्यं महः सर्वोज्ज्वलं ज्योतिः सर्वज्ञात् मौग्ध्ये च सार्वभौमं चक्रवर्ति। सर्वतः श्रेष्ठमित्यर्थः। कदाचित् सर्वज्ञोऽपि भवति, कदाचिन्मुग्धोऽपि भवति, लीलारसमयत्वात्। हन्तेति हर्षे। तन्महो नयनं निर्विशन्नयन- गोचरीभवन्निर्वाणपदं निर्वाणानां सर्वासां निवृत्तीनां मधुरानन्दरसानाञ्च पदमाधारभूतं मधुरानन्दसाम्राज्यमश्नुते व्याप्तनोति। यद्वा तन्महः कर्म, निर्विशन्नयनं कर्त्त, निर्वाणपदं परमानन्दमश्नुते सर्वमास्वाद-यतीत्यर्थः।।83।।
सुबोधनी
न केवलं दद्दर्शने मम सुखं तस्यापि मद्दर्शने सुखमितयानन्द-विस्मयोत्फुल्लः सन्नाहसर्वज्ञत्वेन मदन्तर्वृत्तिज्ञातृतया मनोहरत्वेन च सर्वविजयीदं महो नयनं निःशेषेण विशत्, हन्ताश्चर्ये, परमानन्दं भुङ्क्ते।।83।।
सारंगरंगदा
पूर्वं यथा यथा स्वप्रार्थितं तथाविधत्वेनाविर्भावाद् रासे तासां हृदयेच्छापूरकत्वाच्च सर्वज्ञतायाः, लीलाविशिष्टत्वेन सहजपरमैश्वर्या- देरननुसन्धाना- न्मुग्धतायाश्चानुभवा- नन्दविस्मयोत्फुल्लः सन्नाह- पूर्ववदिदं महोः नयनं निर्विशत्तद्द्वारा प्रविष्य निर्वाणं परमानन्दस्ततपदं हृदयमश्नुते व्याप्नोति विस्मयेन स्तब्धं करोति। हन्तेत्याश्चर्ये। कीदृशम्- सर्वज्ञत्वे च सार्वभौममति- श्रेष्ठमित्यर्थः।।83।।
|