- अनुग्रहद्विगुणविशाललोचनै-
- रनुस्मरन्मृदुमुरलीरवामृतैः।
- यतो यतः प्रसरति मे विलोचनं
- ततस्ततः स्फुरतु तवैव वैभवम्।।112।।[1]
अन्वयः – (हे देव) यतः यतः (यत्र यत्र) मे विलोचनं प्रसरति (कीदृशम्?) अनुस्मरत् (निरन्तरं तवैव माधुर्यं स्मरत्) ततः ततः (तत्र तत्र) अनुग्रहद्विगुण- विशाललोचैः मृदुमुरलीरवामृतैः (सह) तवैव वैभवं स्फुरतु।।112।।
अनुवाद- निरन्तर तुम्हारा माधुर्य स्मरण करते-करते जहाँ-जहाँ मेरे नेत्र प्रसारित हों, वहाँ– वहाँ अनुग्रह से दुगुने विशाल हुए तुम्हारे नयनों के साथ और मृदुमधुर मुरलीध्वनि के साथ तुम्हारा वैभव मेरे आगे स्फुरित हो।।112।।
कृष्णवल्लभा
अथैवमुपसंहरन् स्वाभीष्टरूपलीलं श्रीकृष्णमनवरतं चक्षुर्गोचरे स्फुरन्तं प्रार्थयतेअनुग्रहेति। हे कृपासिन्धो। इदमेवाहं प्रार्थये- यतो यतो मे विलोचनं प्रसरति, ततस्ततस्तव वैभवं वयोरूप लावण्यकेलि-माधुर्यादिम- च्छ्रविग्रहरूपं स्फुरतु प्रकाशताम्- किं कुर्वत्- मृदुमुरलीरवामृतैः मृदूनि सरसानि यानि मुरलीरवा एवामृतानि तैः सहानुस्मरत्। यदा यदा मरलीध्वनिर्भवति तदा तदा मामनुस्मरदित्यर्थः। यद्वा, अनुस्मरदिति विलोचन- विशेषणम्। अनुस्मरत् प्राग्दृष्टमिति शेषः। अन्तःकरणस्य लोचनतादात्म्या- पन्नत्वात्। मृदुमुरलीरवामृतैः सहेति मृदूनि मुरलीरवामृतानि यत्र वैभवे तान्यपि स्फुरन्तिवत्यर्थः। कीदृशैः – अनुग्रहद्विगुण- विशाललोचनैः। अनुग्रहेण कृपया द्विगुण- विशाले लोचने येषु तैः।।112।।
- कृष्णकर्णामृतस्यैषा टीका श्रीकृष्णवल्लभा।
- रतिं तनोत्वरिरतं श्रीकृष्णचरणाब्जयोः।।
|