- तेजसेऽस्तु नमो धेनुपालिने लोकपालिने।
- राधापयोधरोत्संगशायिनेऽशेषशायिने।।76।।[1]
अन्वयः – धेनुपालिने लोकपालिने राधापयो- धरोत्संगशायिने अशेषशायिने तेजसे (श्रीकृष्णाय) नमोऽस्तु।।76।।
अनुवाद- तेजः पुञ्ज को नमस्कार, धेनुपाल लोकपाल को नमस्कार, श्रीराधा के पयोधरों के मध्य शयन करने वाले को नमस्कार, अशेषशायी श्रीकृष्ण को नमस्कार।।76।।
कृष्णवल्लभ
अथ श्रीराधारस- मग्नस्य श्रीकृष्णस्य सर्वतः परमोत्कर्ष वर्णयन् परमभावेन नमस्करोति- तेजस इति। तेजसे तेजोरूपाय नमोऽस्तु। तं बिनास्माकं सर्वेषां विश्वस्यान्धकारमयत्वात्। तर्हि किं ब्रह्मज्योतिर्निराकारम्, न लोकपालिने लोकानां पालकाय। पुनः कीदृशाय- धेनुपालिने गोपालायेत्यर्थः। लोकपालो भूत्वा धेनुपाल इत्यहो तव वैदध्यम्। पुनः कीदृशाय- राधापयोधरोत्संगशायिने। राधायाः पयोधरयोरुत्संगे च शयितं शीलमस्येति तस्मै। पुनः कीदृशाय- शेषशायिने। शेषः श्रीबलभद्रस्तदुत्संगे शयितुं शीलमस्य तस्मै। तमुत्संगे शाययितुं शीलमस्येति वा।।76।।
सुबोधनी
अथ तदाननन्दावेशेन सनर्म नमस्करोति द्वाभ्याम्- कस्मैचित्तेजसे तत्पुञ्जाय नमोऽस्तु। कीदृशे- अहो आश्चर्यम्, राधायाः पयोधरयोर्मघ्ये शयितुं शीलं यस्य। न कवलं तस्या अपि त्वशेषाणां तत्सखीनामप्यंकशायिने। तत्योग्यतामापादयन्नाह- एकेनानन्तगोपालरूपाय। अतस्तल्लीला-प्रवर्तनान्लोकपालिने।।76।।
सारंगरंगदा
अथ नृत्यगतिलाघवेनैकेन वपुषैवाशेषगोपीनां हृदयात् क्षणमप्यनपगतम-विभाव्यकान्ति- प्रवाहोच्छलितं तं विलोक्य निर्वक्तुमसमर्थः साश्चर्यं केवलं नमस्करोति द्वाभ्याम्- अस्मै कस्मैचित्तेजसे तत्पुञ्जरूपाय नमोऽस्तु। कीदृशे- राधापयोधरोत्संगे शयितुं निरन्तरं तन्निकटे स्थातुं शीलं यस्य तस्मै। तस्मात् क्षणमप्य- नपगतायेत्यर्थः। पुनः परितो वीक्ष्य साश्चर्यमाह- तादृशायाप्यशेषेषु समस्तगोपीस्तनोत्संगेषु शायिने तत्न्निकटास्थिताय।
|