श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – हन्त ! द्वाभ्यामपि विलचनाभ्यामम्बु- रुहविलोचनं बालं परिरब्धुं (द्रष्टुं) मम दैव सामग्री (तादृशभाग्यरूप- दर्शन साधनम्) दूरे (भवगर्भितैकनेत्रापांगदर्शनं तावदास्ताम्)।।43।। अनुवाद- दो नेत्रों से उन कमलनयन श्रीकृष्ण के दर्शन करने का भाग्य दूर रहा, केवल एक नयन-अपांग (कटाक्ष) दर्शन करके ही अपने को धन्य समझूँगा।।43।। कृष्णवल्लभा पूर्वं मधुर-मधुर स्मेराकारश्चक्षुर्भ्यामालिंगितः। सम्प्रति तद्भाग्यं नास्तीत्याह- आभ्यामिति, द्वाभ्यां विलोचनाभ्यामम्बुरुहविलोचनम्। अम्बुरुहं कमलं तद्वद्विशिष्टे ईषदरुणकोमलगुणयुक्ते लोचने यस्य तम्। बालं सुकुमारं परिरब्धुमालिंगतुं दर्शनान्दातिलालसया तत्रैव मग्नमिव कर्तुम। हन्त खेदे, मम दैवसामग्री भाग्यरूपा सामग्री दूरे। समीपे न दृश्यत इत्यर्थः। तादृशभाग्यस्यास-म्भवात्। खेदबाहुल्येन क्रियापदस्य वक्तुमशक्य-त्वादाभ्यां द्वाभ्यामपीति, इदं द्विशब्दयोरयं भावः नयनयोरेकस्मिन्- बुध्यमानेऽन्यत्रानन्दाश्रु – संवलित्वेन तथैव स्थित इति द्वाभ्यामपीत्य – धिक्षेपोक्तिः।।43।। सुबोधनी पुनरपि तथैवाह- आभ्यां द्वाभ्यामपि विलोचना- भ्यामम्बुरुहलोचनं बालं परिरब्धुं द्रष्टुं मम दैवसामग्री तादृशभाग्यरूप-दर्शनसाधनं हन्त दूरे। नास्त्येवेत्यर्थः। भावगर्भितैकनेत्रापांगदर्शनं तावदास्ताम्, सामान्यतो द्वाभ्यामपि द्रष्टुं भाग्यं नास्तीत्यर्थः।।43।। |
टीका टिप्पणी और संदर्भ
- ↑ आर्या छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज