- कलक्वणित- कंकणं करनिरूद्ध- पीताम्बरं
- क्लमप्रसृत- कुन्तलं गलित- बर्हभुषं विभोः।
- पुनः प्रकृतिचापलं प्रणयिनी- भुजायन्त्रितं
- मम स्फुरतु मानसे मदनकेलि- शय्योत्थितम्।।20।।[1]
अन्वयः – करनिरुद्धपीताम्बरम् (द्वयोः करै: निरुद्धं पीताम्बरं यास्मिन् तत्) कलक्वणितकंकणम् (अतः कलक्वणितानि द्वयोः कंकणानि यस्मिन् तत्) क्लमप्रसृतकुन्तम् (क्लमेनप्रकर्षेण सृताः विलुलिताः बद्धकुन्तलाः यस्मिन् तत्) गलितबर्हुभुषम् (गलिते संसृते तयोर्बर्हभूषे यत्र तत्) पुनः प्रकृतिचापलम् (पुनः प्रकृतिचापलं कृष्णस्य यत्र तत्) प्रणयिनीभुजायन्त्रितम् (प्रणयिनी- भुजाभ्यां यन्त्रणं यत्र तत्) विभोः (तत्तत् केलिसमर्थस्य श्रीकृष्णस्य) मदनकेलिशय्योत्थितम् (मदनकेलिशय्यातः उत्थानम्) मम मानसे स्फुरतु।।20।।
अनुवाद- कंकणों की मधुरध्वनि से मुखरित हाथों द्वारा श्रीराधा-श्रीकृष्ण का पीताम्बर खींच रही हैं, विलासक्लान्ति से उन दोनों की केशराशि अस्तव्यस्त है, मोरपंख और आभूषण स्खलित हैं। फिर भी स्वभावचापल्य के कारण जो प्रणयिनी के बाहुपाश में बाँधे हैं- उन्हीं विभु की मदनकेलि- शय्योत्थानलीला मेरे मानस में स्फुरित हो।।20।।
कृष्णवल्लभा
अथ नवगोपकिशोरी- संग- सञ्जात- सम्भोगरूपां लीलां वर्णयति- कलेति। विभोः श्रीकृष्णस्य मदनकेलि- शय्यात उत्थितमुत्थानं मम मानसे चेतसि स्फुरतु प्रकाशतां प्रार्थनायां लोट्। उत्थितमिति भावे क्तः। कीदृशमुत्थितम्-कलं मधुरास्फुटध्वनि क्वणितं कंकणं तत्र तद् यथा स्यात्तथा। प्रणयिनी भुजायन्त्रितं प्रणयिनी-भुजाभ्याम् आ ईषद्यन्त्रितं बद्धम्। कम्पोपलक्षित-सात्त्विक भावाद्। प्रणयिन्या भुजौ यन्त्रितौ येनेति वा। ध्वनौ तु मधुरास्फुटे कलमित्यमरः (1/6/2)। पुनः। कीदृशम्- कर निरुद्धपीताम्बरम्। करेण निरुद्धं स्खलितं पीताम्बरं यत्र। यद्वा, करेण निरुद्धं पीताया गौर्या राधाया अम्बरं येन। “पीतो गौरेऽरुणे सिते” इति वैजयन्ती। पुनः कीदृशं क्लमप्रसृतकुन्तलम्। क्लमेनातिरतिश्रमजातांग्लान्या प्रसृता इतस्ततश्चलिताः कुन्तलाः केशा यत्र। अति सम्यक्सृता विलुलिताः कुन्तलाः केशा यत्र। रतिरसाविष्टस्य मनसोऽनवस्थानात् सम्यक् पीताम्बर-परिधान- केशबन्धनाशक्तेः। अतएव गलिता बर्हरूपा भूषालं कृतिर्यत्र। यद्वा, गलिता बर्हभूषा भूषणानि मालाहारादयो यत्र। पुनः कीदृशम्- पुनः प्रकृतिचापलम्। पुनः कृत्वापि बहुलकेलिकौतुकं प्रकृत्या रसाविष्टैकस्वभावत्वेन चापलं चपलता रतिसम्भ्रमेणास्तव्य स्तता यत्र।
|