- लीलाननाम्बुज- मधीरमुदीक्षमाणं
- नर्माणि वेणुविवरेषु निवेशयन्तम्।
- दोलायमान – नयनं नयनाभिरामं
- देवं कदा नु दयितं व्यतिलोकयिष्ये।।49।।[1]
अन्वयः – लीलाननाम्बुजम् (लीला भावोद्गारभंगी तद् युक्तमाननं यस्य तम्) अतएव अधीरम् उदीक्षमाणं वेणुविवरेषु नर्म्माणि निवेशयन्तं, दोलायमाननयं नयनाभिरामं दयितं देवं कदा नु (वितर्के) व्यतिलोकयिष्ये (स मां द्रक्ष्यति अहमपि तं द्रक्ष्यामि)?।।49।।
अनुवाद- उन लीलाननाम्बुज (लीला- आननअम्बुज), रसचाञ्चल्य से अधीर, ऊर्ध्वदृष्टिपातकारी, वेणुविवरों (वंशी के छिद्रों) में नर्मसंकेत प्रकाशित करने वाले, दोलायमान नयन, नयनाभिराम प्रियतम देव को मैं कब देख पाऊँगा? वे भी मुझे देखेंगे?।।49।।
कृष्णवल्लभा
सम्प्रतिपादितम – वलोकयन्त- मवलोकयामि, तदा महत् कौतुकमिति हर्षोत्सुक्येनाह- लीलेति। दयितं सञ्जातदयं बहुदातारं वा। देवं द्योतमान कदा नु व्युतिलोकयिष्ये क्रियाव्यतिहारे व्यक्तिः। पश्यन्तं तं द्रक्ष्यामीत्यर्थः। यद्वा, अनुदयितम्। अनुकूला अनुगता दयिता वल्लभा यस्मिंस्तं देवं क्रीडन्तम्। रासविहारिमित्यर्थः। कीदृशं देवम्- लीलाननाम्बुजम्। लीला श्रृंगारभावजा क्रिया तद्युक्तमाननाम्बुजं यस्य तम्। पुनः कीदृशम्- अधीरं चञ्चलम्। यद्वा, न विद्यते धीर्यत्र स अधीर्मोहस्तं राति ददातीति वा। अधीरं यथा भवति तथोदीक्षमाणम्। उदुत्कृष्टमीक्षमाणं पश्यन्तम्। पुनः कीदृशम्- वेणुविवरेणु, वेणोश्छिद्रेषु नर्माणि परिहासोक्तीर्निवेशर्यन्तमपर्यन्तम्। वेणुवादनेन स्मरपरिहासं कुर्वन्तमित्यर्थः। पुनः कीदृशम्- दोलायमाननयनम्। दोलायमाने घूर्णायमाने नयने यस्य तम्। अतो नयनयोरभिरामं सुन्दरम्।।49।।
सुबोधनी
पुनरपि तथैव सलालसमाह- नु वितेर्क देवं पुरः क्रीडन्तं कदा व्यतिलोकयिष्ये। स मां द्रक्ष्यत्यहमपि तं द्रक्ष्यामि। स कथं त्वामवलोकयेत् – लीला नानाभावोद्रारभंगी तद्युक्तमाननाम्बुजं यस्य। अतएवाधीरं यथा स्यात्तथोद्वीक्षमाणम्। तथा, वेणुविवरेषु नर्माणि निवेशयन्तम्। अतो दोलायमाननयनम्। कौतुकी लीलया मामवलोकयेदित्यर्थः। त्वं कथं तं दिदृक्षसे दयितम्। अतएव नयनाभिरामम्।।49।।
|