- चित्रं तदेतच्चरणारविन्दं
- चित्रं तदेतन्नयनारविन्दम्।
- चित्रं तदेतद्वदनारविन्दं
- चित्र तदेतद्वपुरस्य चित्रम्।।89।।[1]
अन्वयः – तदेतच्चरणारविन्दं चित्रम्, तदेतद्वदनारविन्दं चित्रम्, तदेतन्नयनारविन्दं चित्रम्, तदेतद्वपुरस्य चित्रं चित्रम्।।89।।
अनुवाद- इनके चरणारविन्द आश्चर्यजनक हैं, इनके वदनारविन्द आश्चर्यजनक है, इनके नयनारविन्द आश्चर्यजनक अत्यंत आश्चर्यजनक है।।89।।
कृष्णवल्लभा
सम्प्रति तदेव जीवितमाश्चर्यरूपत्वेन वर्णयति-चित्रमिति। तदेवैतच्चरणाविन्द ध्वजवज्र यवांकुशरेखादियुक्तं चित्रमाश्चर्यम्। तदेवेति दुर्लभं यन्मुनिभिश्चिन्त्यते परं, न तु दृश्यतेतराम्। एतिदितिसुलभं यदस्मदनुग्रहदृष्ट्या प्रत्यक्षीकृतम्। अतएव चित्रमेवं नयानरविन्दादिष्वपि। तदेवैतन्यनारविन्दं हावभाव-विविध दृष्टियुतम्। तदेवैतद्वदनारविन्दं महाश्चर्य- सौन्दर्यमाधुर्यलावन्यादिमत्। अम्बेत्याश्चर्ये। तदेतद्वपुश्चित्रं चित्रम्, आश्चर्यमाश्चर्यमिति। स्निग्धघनेन्दीवरमर- कतकान्तिच्छटा- परिभावकमित्यर्थः।।89।।
सुबोधनी
पुनस्तत्साम्राज्यं विवृण्वंस्तत्- प्रत्यंगमाधुर्य-मनुभवन्नाह- अस्य तदेतच्चरणारविन्दं चित्रं प्रियोरः कुंकुमाक्ततयाद्भुतम्। ऊर्ध्वं विलोक्य तदेतद्वदनारविन्दं तद्दशनक्षतादिनाद्भुतम्। तद्रतिजागरमारुणं तदेतन्नयनारविन्द- मद्भुततरम्। एतैस्तदेतद्वपुरद्भुततमम्। वीप्सात्र तत्तच्चित्र- चित्रिततयात्याश्चर्ये।।89।।
सारगरगदा
पुनस्तत्प्रत्यंगमाधुर्या- नन्त्यस्फूर्त्या साश्चर्यमाह- ‘तत् कृष्णपादाम्बुजाभ्याम्’[2] इत्यादिना। प्रार्थितमेदस्य चरणारबिन्दं चित्रमद्भुतम्। तथा, ‘मूर्ति जगन्मोहिनीम्’[3] इत्यादौ प्रार्थितं तदेतदस्य वपुश्चित्रमत्यद्भुतम्। ‘मुखपंकजं मनसि में विजृम्भताम्’[4] इत्यादौ प्रार्थितं तदेतद्वदनारविन्दं चित्रमत्यद्भुततरम्। तथा, ‘प्रस्फुरल्लो- चनाभ्याम्’[5] इत्यादौ प्रार्थितं तदेतन्नयनारविन्दं चित्रमत्यद्भुततमम्। तदेतत् सर्वं मम प्रत्यक्षं जातमिति चित्रमतितमाद्भुततम्। वपुरम्बेति पाठे- अम्बेत्याश्चर्य- द्योतकाकाश-सम्बोधनम्।।89।।
|