|
|
- भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
- द्दैवेन नः फलति दिव्यकिशोरमूर्तिः।
- मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
- धर्मार्थकामगतयः समयप्रतीक्षाः।।107।।[1]
अन्वयः – भगवान् ! यदि (मे) त्वयि भक्तिः स्थिरतरा स्यात् (तदा) दिव्यकिशोरमूर्तिः नः दैवेन फलति (स्वतएव प्राप्तः स्यात् किं प्रार्थनया ?), मुकुलिताञ्जलि अस्मान् (स्वयमेव) सेवते, धर्मार्थकामगतयः समयप्रतीक्षाः (धर्मार्थकामफलान्यपिः त्वच्चरणसेवाकालप्रतीक्षकाः स्युः)।।107।।
अनुवाद- हे भगवान् ! यदि तुम में मेरी भक्ति स्थिरतराहे, तो तुम्हारी दिव्य किशोरमूर्ति स्वतः आकर दर्शन देगी, मुक्ति स्वयं कृताञ्जलि होकर (हाथ जोड़े) हमलोगों की सेवा करेगी, और धर्म अर्थ काम सेवा के लिए समय की प्रतीक्षा करेंगे।।107।।
कृष्णवल्लभा
सम्प्रति पूर्णमधुररसमय – श्रीकृष्णस्वरूपं समस्तशक्तिगुण- दिपरमोत्कर्ष- विश्रामस्थानम्, तदनुभवाय तदैकान्तिकमहा- भक्तिमानपि भगवन्मात्रे साधनरूपां परमां भक्तिं कुर्वाण आह- भक्तिस्वत्वयीति। हे भगवान् ! भगवत्स्वरूपमात्र, यदि त्वयि स्थिरतरा भक्तिः स्यात्तर्हि दैवेन भाग्येन। यद्वा, देवानां दैवं तेन। मदभीष्ट-स्वरूप- श्रीकृष्णस्यैव रूपभेदनां भगवतां शुभसंकल्पेनेत्यर्थः। दिव्यकिशोरवेशः- दिव्यमद्भुतं किशोरं वपुरेव वेषो भूषणं यस्य सः। फलति प्रव्यक्तः सन्मम दीर्घाया आशावल्याः फलतां प्राप्नोतीत्यर्थः। ननु सर्वतो वैराग्यं चेदशेषनिवृत्त्या स्वात्मसुखरूपां मुक्ति गृह्रीत, न चेद्विरागो धर्मनिष्ठामाश्रयत, अर्थान्वा गृह्रीत कामसुखान्वा, नेत्याह- मुक्तिरिति। मुक्तिः सालोक्यादिरूपा श्रीकृष्ण- नामोच्चारणमात्र एव स्वयमप्रार्थितैव मुकुलिताञ्जलि। मुकुलितोऽञ्जलिर्यस्मिन् कर्मणि तद्यथा भवति तथा। नोऽस्मान् सेवते। धर्मार्थकामरूपा गतयोऽपि समयवसरं प्रतीक्षन्ते। मनागपि तत्र दृष्ट्यभावात्। कदास्मासु कृपादृष्टिः स्यात्तदा तान् वयं भजाम इत्यर्थः।।107।।
|
|