अस्तोक-स्मितभर- मायतायताक्षं
- निःशेष- स्तन- मृदितं व्रजांगनाभिः।
- निःसीम- स्तवकित- नीलकान्तिधारं
- दृश्यासं त्रिभुवनसुन्दरं महस्ते।।28।।[1]
अन्वयः – (हे कृष्णः) अस्तोकस्मितभरम् (अनल्पस्मितस्य आतिशय्यो तत्र तादृशम्) आयतायताक्षम् (आयतादप्यायते सहजदीर्धे नेत्रे यत्र तादृशम्) व्रजांगनाभिः निःशेष- स्तनमृदितम् (व्रजांगनाभिः संपूर्णस्तनैःगाढ़िलिंगतम्) निःसीमस्तवकितनीलकान्तिधारम् (अवधिशुन्यं यथास्यात्तथा तत्स्तनचिह्नस्तवकैः व्याप्ता नीलकान्तिधारा यत्र तादृशम्) ते त्रिभुवनसुन्दरं महः दृश्यासम् (अहं द्र्टुमाशासे)।।28।।
अनुवाद- हे कृष्ण ! तुम्हारा मृदुमधुर हास्य, आयत (बड़े-बड़े) नेत्र, व्रजांगनाओं द्वारा प्रगाढ़ रूप से आलिंगित और निःसीम- स्तवकित- नीलकान्तिधारा युक्त त्रिभुवन सुन्दर ज्योतिर्मय वपु (श्रीअंग) मैं कब देखूँगा?
कृष्णवल्लभा
सम्प्रति रासक्रीड़ायां रासरसोन्मत्तया विचित्राभिर्व्रजसुन्दरीभिः प्रत्येकमुपकृष्णं मन्यमानाभिः प्रगाढ़तरमालिंग्यमानं श्रीकृष्णं द्रष्टुमाशास्ते- अस्तोकेति। हे कृष्ण ते तव महः परमाश्चर्यज्योतिर्मयं परममहोत्सवमयं वा वपुरहं दृश्यासं द्रष्टुमाशासे। दृश्यासमित्याशिषि लिङि रूपम्। कीदृशं महः- अस्तोकस्मितभरम्-अस्तोकमनल्पं यत्स्मितं तस्य भरोऽतिशयो यत्र तत्। ईषर्थे वा नञ्। अस्तोकमीषत्- स्तोकमत्यल्पत्वेऽप्यतिशयो लक्ष्यते यत्र। अस्तोकस्मितेन- विभर्ति पुष्णातीति वा। पुनः कीदृशम्- आयतायताक्षम्। आयतायते आयतादप्यायते प्रीत्या विस्फारिते- ऽक्षिणी यत्र तत्। पुनः कीदृशम्- व्रजांगना- भिर्निःशेषस्तनमृदितम्। व्रजसम्बन्धिनीभि-रंगनाभिः। प्रशस्तान्यांगान्यासां सन्तीति प्रशंसायां न- प्रत्ययः। निःशेषं यथा भवति तथा स्तनाभ्यां मृदितम्। पुनः कीदृशम्- निःसीमस्तवकितनील-कान्तिधारम्। निःसीमं यथा स्यात् तथा स्तवकिता। यथा यथा व्रजांगनाभिः स्तनमृदितं भवति, तथा तथा स्तवकितनील-विस्तारं प्राप्ता नीलकान्ति-र्नीलमणेः कान्तिर्वातां धारयतीति तत्। अयं भावः- नीलमकृष्णवपुषि श्रृंगाररसमयत्वा- दसाधारण-चमत्कार एव कैशोरे। तत्रापि स्वानुरक्त- व्रजविलासिनी सहित रासक्रीड़ायां श्रृंगाररसस्याति- परमोद्रेकान्नीलकान्तीनां परममहा- चमत्कारोऽभवदिति। पुनः कीदृशम्- त्रिभुवनसुन्दरम्। त्रिभुवनेष्विदमेव रासरसाविष्टं श्रीकृष्णस्वरूपं सुंदरम्। नहि त्रैलोक्यवर्तिना केनापि व्रजवासिपर्यन्तेनेदृश- सौन्दर्यवान् कृष्णो दृष्ट इत्यर्थः। त्रिभुवनं सुन्दरं येन वा।।28।।
सुबोधनी
पुनः शय्योत्थित श्रीकृष्णस्फूर्त्या तद्दर्शनमाशास्ते- ते महस्तव कान्तिपूरं दृश्यासम्। कीदृशम्- अनल्पस्मित- स्यातिशयो यत्र। तत्र हेतुः- आयते सहजदीर्घे प्रियास्मेयस्येक्षणा-यात्यायते नेत्रे यत्र। तत्स्मितमपि कथम्- व्रजांगनाभिस्तत्- सखीभिः सम्पूर्णस्त्तनैर्मृदितं गाढ़ालिंगितम्। स्वप्रेरित- प्रियसुखशंसि तदाश्लेषालो-कोल्लासात् स्मितमिदम्। अतएव निःसीममवधिशून्यं यथा स्यात्तथा तत्स्तनचिह्न-स्तवकैर्व्याप्ता नीलकान्तिधारा यत्र। पुनः तत्स्मरणादिना त्रिभुवनं सुन्दरं यस्मात्।।28।।
|