- मृदुक्वणन्नूपुरमन्थरेण
- बालेन पादाम्बुजपल्लवेन।
- अनुस्मरन्मञ्जुल- वेणुगीत-
- मायाति मे जीवितमात्केलि।।78।।[1]
अन्वयः – मृदुक्वणन्नूपुरमन्थरेण (मृदुक्वणन्नूपुरं तच्च गीतस्मरणमग्नचित्तत्त्वाद् मन्थरञ्च यत्तेन) बालेन (कोमलेन) पादाम्बुजपल्लवेन आत्तकेलि (आत्ता गृहीता केलिर्येन तत्) मे जीवितं मञ्जुलवेणुगीतमनुस्मरन् आयाति।।78।।
अनुवाद- मेरे जीवनस्वरूप श्रीकृष्ण कोमल पादपद्मपल्लवों से मृदुमृदु नूपुरध्वनि करके मन्थर गति से विलास के साथ मधुर वेणुगीत स्मरण करते हुए आ रहे हैं।।78।।
कृष्णवल्लभा
अथ कविर्भावनापरिपाकतः साक्षादिव स्फुरत्पुरो विलासवतः श्रीकृष्णस्यागमनं वर्णयति– मृदुक्वणन्नति। मे जीवितमायाति। कीदृशं जीवितम्- बालेन कोमलेन पदाम्बुज- पल्लवेन, मृदु यथा स्यात्तथा क्वणता नूपेरण मन्थरं यत्तेन च, आत्तकेलि। आत्ता गृहीता केलिर्येन तत्। एतेन नानागतरूपं नृत्यं ध्वन्यते। किं कुर्वत् मञ्जुलवेणुगीतमनुस्मरत्। मञ्जुलं मनोहरं यद्वेगुणगीतं तदनुस्मरत्। शनैर्गच्छता नूपुरेणतदा क्वणितं यथा वेणुध्वनिः स्मर्यत इति। यद्वा, अनुक्षणं स्मरत्स्मरवदाचरन्मञ्जुलं वेणुगीतं यस्येत्येकपदम्वा।।78।।
सुबोधनी
पुनस्तदागमनं वर्णयति चतुर्भिः– मम जीवितं पादाम्बुजपल्लवेनायाति। अम्बुजपल्लवतोऽप्यति कोमलेनेत्यात्मन्यति-कारुण्यमुक्तम्। कीदृशेन- बालेन क्रीडाविशिष्टेन। कीडावेशं व्यनक्ति- मृदुक्वणन्नूपुरञ्च तद्विलासावेशेन मन्थरञ्च यत्तेन। तत्र हेतुः– मञ्जुलवेणुगीतमनुस्मरत्। प्रियाविलासं स्मारं स्मारं वादयदित्यर्थः अतस्तत्र प्रकटीकृतः केलिर्येन। तत्त्तत् केलिसूचकतया वादयदित्यर्थः।।78।।
|