श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः – हे देव दयाम्बुधे ! निबद्धमूर्द्धाञ्जलिः (येन तादृशः सन्) निरन्ध्रदैन्यो- न्नतिमुक्तकण्ठम् (निरन्तरं यद्दैन्यं तस्य या उन्नतिः तया मुक्तकण्ठं यथा स्यात् तथा) एष याचे, भवत्कटाक्षदाक्षिण्यलेशेन (तव कटाक्षस्य यद्दाक्षिण्यं प्रियानुनयप्रवृत्तिः तस्य लेशेनापि) सकृन्निषिञ्च (सकृत् अपि नितरां सिञ्च)।।30।। अनुवाद – हे देव! हे दयासागर ! मैं मस्तक पर अञ्जलि बाँधकर अत्यन्त दैन्य के साथ मुक्तकण्ठ से यह प्रार्थना करता हूँ कि आप एक बार अपने करुणाभरे कटाक्ष-लेश से मुझे अभिसिञ्चित करें।।30।। कृष्णवल्लभा
हे देव निरन्तर क्रीडारसमग्न, एषोऽहंदुरन्त प्रत्याशाविवशः निबद्धमूर्द्धाञ्जलिर्निबद्धो मूर्द्धन्यञ्जलियेंन तथाविधः सन्। यद्वा, निबद्धोमूर्द्धनि समस्तपुरुषार्थेभ्यः साधनानुष्ठानेभ्य- श्चाञ्जलिर्येन तादृशः सन्। मूर्द्धानिबद्ध इति वक्तव्ये मूर्द्धाति नम्रत्व- ख्यापनायान्यथाकथनम्- नीरन्ध्रं निरन्तरं यद्दैन्यं तस्य योन्नतिस्तया मुक्तकण्ठं यथा भवति, तद्वन्मुक्तः कण्ठो यस्मिन् कर्मणि तद् यथा स्यात्था। याचे प्रार्थयामि। किं तदाह- भवत्कटाक्षदाक्षिण्यलेशेन। भवन् स्वभावत एवाविर्भवन् कृपाकटाक्षो यस्त्वदीयस्तस्य यद्दाक्षिण्यमौदार्यं तस्य लेशेन सकृदेकबारं निषिञ्च। भवत्कटाक्षेत्यस्य तव कटाक्षेति वा। परमोत्कृष्टं प्रेम सविषयं देहीत्यर्थः।।30।। |
टीका टिप्पणी और संदर्भ
- ↑ उपेंद्रवज्रा छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज