- करौ शरदिजाम्बुजक्रम- विलासशिक्षागुरु
- पदौ विबुधपादपप्रथम- पल्लवोल्लंघिनौ।
- दृशौ दलितदुर्मदत्रिभुवनो- पमानश्रियो
- विलोकय विलोचनामृतमहो महः शैशवम्।।86।।[1]
अन्वयः – करौ शरदिजाम्बुजक्रम- विलासशिक्षागुरु (शरदिजाम्बुजानां क्रमेण परिपाट्या ये विलासास्तेषां शिक्षागुरु) पदौ विबुधपादपप्रथमपल्लवोल्लंघिनौ (पदौ विबुधपादपानां कल्पवृक्षानां प्रथमपल्लवांस्तदगुणैरुल्लंघयितुं शीलं ययोस्तादृशौ) दृशौ दलितदुर्मदत्रिभुवनो- पमानश्रियौ (दलितानि दुर्मदानि त्रिभुवने यानि पद्मादीनि उपमानानां तेषा श्रीर्याभ्यां तादृशौ) अहो ! विलोचनामृतं शैशवम् (कैशेरम्) महः विलोकय।।86।।
अनुवाद- जिनके हाथ शरत्काल के पद्मों की विलासपरिपाटी के शिक्षागुरुस्वरूप हैं, जिनके चरणों ने कल्पवृक्ष के नवीन पल्लवों की शोभा का अतिक्रम किया है, जिनको नयनों ने त्रिभुवन के कमल आदि समस्त तुलनायोग्य पदार्थों का गर्व विदलित (चूर-चूर) कर दिया है- उन्हीं नयनामृतस्वरूप किशोर की तेजोराशि का दर्शन करो।।86।।
कृष्णवल्लभा
अथ पुरः स्फुरति श्रीकृष्णेऽतिप्रवृद्धता- दृग्दर्शनलालस आह- कराविति। हे विलोचन ! अहो आश्चर्यम्, अमृतममृतस्वरूपं शैशवं सौकुमार्यं मह उत्सवरूपं वपुः। यद्वा, महः शैशवं महसां शैशवं सुकुमारतां विलोकय पश्येति प्रार्थये। प्रार्थनायां लोट्। इदमेव त्वया विलोकनीयम्, स्वप्नेऽपि नान्यत्र दृष्टिर्देयेत्यर्थः। यस्य करावीदृशौ शरदिजाम्बुजक्रम- विलासशिक्षागुरु। शरदि जातानि शरदिजानि। अलुक्समासः। तानि चाम्बुजानि, तेषु क्रमन्ते स्फीति भवन्ति विलासा विविधलसनानि शोभाः शैत्यसौकुमार्य- सौगन्धयादिरूपास्तासु शिक्षागुरु। यद्वा, शारदिजानाम्बुजानां क्रमः परिपाटी तस्या विलासशिक्षागुरु। पादौ कीदृशौ-विबुधपादप्रथम- पल्लवोल्लंघिनौ। विबुधानां देवानां पादपस्य कल्पद्रुमस्य प्रथमोयः पल्लवः पत्रं तमुल्लंघयितुं शीलं ययोस्तौ। ततोऽप्यधिककारुण्य- सौकुमार्यादिमत्वात्। दृशौ कीदृशौ- दलितदुर्मदत्रिभुव- नोपमानश्रियौ। दलितानि दुर्मदानि समस्तदिग्विजयात् प्राप्तमदानि त्रिभुवनस्थानि यान्युपमानानि मृगमीन – खञ्जन- चकोर-चञ्चरीक – कुवलयादीनि तेषां श्रीर्याभ्यां ते।।86।।
|