श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
अन्वयः प्रस्तुत-वेणुनादलहरी-निर्वाण-निर्व्याकुलम् (ब्रज-सुंदरीणामा-कर्षणार्थ प्रस्तुताःये वेणुनादाः तेषां लहर्यः तरंगाः तज्जन्यं यद् निर्वाणं परमानन्दस्तेन निर्व्याकुलं निराकुलमित्यर्थः) स्वस्तरुणीकराग्र विगलत्-कल्प-प्रसूनाप्लुतम् (स्वस्तरुण्यः तासां तन्माधुर्य-दर्शन-विवशानां कम्पमानकराग्रेभ्यः विगलन्ति यानि कल्पतरु-पुष्पाणि तैराप्लुतम्) स्रस्तस्रस्तनिरुद्ध-नीवि-विलसद्गोपीसहस्रावृतम् (वेणुनादश्रवणात् स्रस्ताः लज्जाभयतः स्वस्थाने बद्धाः पुनः स्रस्ताः तदा करेण रुद्धाः याभिः ताः सौन्दर्यानुरागाद्यैश्च विलसन्त्यः याः गोप्यः तैः सहस्रैरावृत्तं वेष्टितम्) हस्तन्यस्तनतापवर्गेम् (हस्तेन्यस्तः नतानां स्वभजनोन्मुखानाम् अपवर्गः येन तम्) उदारं किशोराकृतिः (किमपि) वस्तु अस्ति (सदा विराजते वृन्दावने इति शेषः)।। 2।। अनुवाद- जो वेणुनाद- लहरी के माधुर्य-आनन्द से निर्व्याकुलया निश्चल हैं; स्वर्गीय (स्वर्ग की) तरुणियों के कराग्रभाग से निकले कल्पतरुओं के पुष्पों द्वारा छा गए हैं; स्खलित नीवियों वाली सहस्र-सहस्र गोपियों से घिरे हैं; जिनके हाथ में प्रणतजनों का अपवर्ग (मोक्ष, परमगति) विद्यमान है; जो सभी के प्रति उदार हैं- ऐसी एक किशोराकृति वस्तु श्रीवृन्दावन में नित्य विराजमान है।। 2।। कृष्णवल्लभा एवं भगवतः श्रीकृष्णस्य जयरुपं मंगलं निरुप्य लीलाशुकनामा कविः संप्रति वर्णनीय-परमरहस्य लीलातद्रूपकरण-सहितस्य सच्चिदानन्द-सान्द्रैकरसघन-विग्रहस्य किशोराकृतेस्तस्यैव परमपुरुषार्थाशिरोमणितां दर्शयितुं प्रतिजानीते – अस्तीति। वस्त्वस्तीति सम्बन्धः। वसति भक्तानां हृदये। तत्रैवाविर्भावात् तथा चोक्तं– विल्वमंगले (द्वितीयशतक, श्लोक 83)- |
टीका टिप्पणी और संदर्भ
- ↑ शार्दूल विक्रीडितं छन्दः
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज