- माधुर्यादपि मधुरं मन्मथ-
- तातस्य किमपि कैशोरम्।
- चापल्यादपि चपलं चेतो
- बत हरति हन्त किं कुर्मः।।65।।[1]
अन्वयः – मन्मथतातस्य माधुर्यादपि मधुरे किमपि कैशोरं चापल्यादपि चपलं (मम) चेतो बत हरति, हन्त किं कुर्मः?।।65।।
अनुवाद- मन्मथजनक श्रीकृष्ण का माधुर्य से भी अधिक मधुर कोई अनिर्वचनीय कैशोर मेरे चापल्य से भी अधिक चपल चित्तका हरण कर रहा है। हाय अब मैं क्या करूँ।।65।।
कृष्णवल्लभा
किञ्च माधुर्यादिति। मन्मथतातस्य कामजनकम्य श्रीकृष्णस्य। मन्मथस्य तातो विस्तारो यस्माद्वा। मन्मथतां साक्षान्मन्मथत्वमतति प्राप्नोतीति मन्मथ तातस्तस्येति वा। एतेन सौन्दर्याधिक्यं ध्वनितम्। किमप्यनिर्वाच्यं कैशोरं कर्तृ। बत विस्मये। चेतः कर्म हरित चोरयति। चेतश्चेद्धरति तदा प्रतिकारः कर्त्तुमुचित इत्याह- किं कुर्मः। करणशक्त्यभावात्। तच्चरणैकान्तिकीं परमनिभृतसख्यपदव्याशां नैव त्युक्तुं शक्नुम इत्यर्थः। यद्वा, तस्य कैशोरमेव मन्मथा मन्मथस्वरूपम्। समस्तपरमरस चमत्कारधारिणीति भावः। कीदृशं कैशोरम्- माधुर्यादपि मधुरम्। सर्वावस्थाविशेषु माधुर्यं[2] भावविशेषः, तस्मादपि मधुरम्। समस्तमाधुर्यविलक्षण माधुर्यमित्यर्थः। एवं चापल्यं भावविशेषः, तस्मादपि चपलम्।।65।।
सुबोधनी
अथ स्वचित्तोन्मादे स एव निदानमित्याह मनो मथ्नातीति मन्मथोऽभिलाषस्तस्य जनकस्य, बताश्चर्ये, किमपि कैशोरं चेतो हरति। हन्त खेदे। किं तदवनाय कमुपायं कुर्मः। सर्वैर्मिलित्वा गृहाण-चापल्यात्तद्रूपधर्मादपि चपलम्। ग्रहीतुमपि न शक्नुमः। चेतोऽपहारे हेतुः- माधुर्यादपि तथा मधुरम्। अतिमधुरमित्यर्थः।।65।।
|