- तदिदमुपनतं तमालनीलं
- तरल – विलोचनतारकाभिरामम्।
- मुदितमुदितवक्त्रचंद्र – बिम्बं
- मुखरितवेणुविलासि जीवितं मे।।73।।[1]
अन्वयः – तमालनीलं तरलविलोचनतारकाभिरामम् (तरलाभ्यां विलोचनयोस्तारकाभ्याम् अभिरामम्) मुदितमुदितवक्त्रचंद्रबिम्बम् (अतिमुदितं वक्त्रचंद्रबिम्बं यत्र तत्) मुखरितवेणुविलासि मे जीवितं तदिदम् उपनतम् (समीपागतम्)।।73।।
अनुवाद- (मेरे) जीवनवल्लभ निकट आ गए हैं। इनकी देहकान्ति तमाल की तरह नील है, तरल नयनों के तारक अति अभिराम हैं, हर्षयुक्त हास्यभरा मुख पूर्णचंद्र की शोभा को भी पराजित करता है। ऐसे मुखरित वेणुविलासी प्राणवल्लभ को प्राप्त कर लिया।।73।।
कृष्णवल्लभा
अथ श्रीकृष्णस्वरूपं सन्ततवर्द्धिष्णुप्रेम्ना निरीक्ष्यमाणः क्षणमपि तिरोधानेनाकुलितचित्तः पूर्व- श्लोकोक्तमेव दृढीकरोतीत्याह- तदिदमिति। तदिदं यन्महाभाववद्भ्यः श्रुतम्। इतमित्यपरोक्षतया। मे मम जीवितं जीवितरूपमुपनतं प्राप्तमवगतं वा। मनागप्रकाशे मरणमेव स्यादिति भावः। कथमवगतम्, तत्राह- तमालनीलम्। तमालवृक्षवन्नीलः श्यामो वर्णो यस्य तत्। श्रृंगाररसरूपमित्यर्थः। न केवलं तथा- सुखयतीति तत्। पुनः कीदृशम्- मुदितमुदित- वक्त्रचंद्रबिम्बम्। मुदितमुदितेत्यतिशयार्थे वीप्सा। यद्वा, मुदितं यथा स्यात्तथोदित उदयं प्राप्तो वक्त्रचंद्रबिम्बो यस्य तत्। पुनः कीदृशम्- मुखरितवेणुविलासि। मुखरितो वादितो यो वेणुस्तेन विलासि विलासयुक्तम्। यद्वा, मुखरितो वेणुर्याभ्यो गोपीभ्यो निमित्तभूताभ्यस्ताभिः सह विलासि।।73।।
सुबोधनी
पुनः सनिश्चयमाह– तदेव मम जीवितं समीपमागतम्। कथं ज्ञातम्- तमालवन्नीलम्। ततोऽपि कुतः – प्रियादर्शनाय तरलाभ्यां विलोचनयोस्तारका – भ्यामभिरामम्। अतएवातिमुदितं वक्त्रचंद्रबिम्बं यत्र। वादितो यो वेणुस्तेन विलसितुं शीलं यस्य।।73।।
|