- शिशिरीकुरुते कदा नु नः
- शिखिपचिच्छाभरणः शिशुर्दृशोः।
- युगलं विगलन्मधुद्रव-
- स्मितमुद्रामृदुना मुखेन्दुना।।24।।”[1]
अन्वयः – शिखिपिच्छाभरणः शिशुः (शिखिपिच्छानि आभरणानि यस्य स किशोरमूर्तिः श्री कृष्णः) विगलन्मधुद्रवस्मितमुद्रामृदुना (विगलद् मधुद्रववद् यत् स्मितं तस्य मुद्रया भंगय्या मृदुना) मुखेन्दुना नः (अस्माकम्) दृशोः युगलं कदा नु (वितर्के) शिशिरीकुरुते (शीतलीकरोति)।।24।।
अनुवाद- जिनके मुखचन्द्र के मृदुहास्य से मधुधारा विगलित होती है, जिनके मस्तक पर मोरपंख का आभरण (अलंकार) है, वही किशोर कृष्ण दर्शन देखकर हमारे नेत्रों को सुशीतल कब करेंगे?।।24।।
कृष्णवल्लभा
संप्रति दूरत एव श्रीकृष्णदर्शनानन्दानुभवभावितान्तः करणः कदा निजकरुणया मद्दृशौ शीतयिष्यतीति प्रार्थयते- शिशिरीकुरुत इति। शिखिपिञ्छाभरणः शिखा चूड़ा विद्यते येषां ते शिखिनो मयूरास्तत्- पिञ्छानामाभरणो यस्य स श्रीकृष्णो मुखेन्दुना मुखचंद्रेण। स्वप्रकाशेनामृत- स्रावित्वेन चंद्रसाम्यम्। न्विति वितर्के। नोऽस्मांक दृशोर्युगलं कदा सुकुमारोऽकठिन इति यावत्। तस्मात् कदाचित् तस्य शीतलीकरणं सम्भवति। “शिशुः स्याद्वालके पुंसि सुकुमारेऽभिधेयवत्” इतिर धरणिः। यद्वा, शिशुरिति निजप्रियवयस्यबालकसंगेन क्षणं शैशवक्रीडासक्तत्त्वात्। कीदृशेन मुखेन्दुना- विगलन्मधुद्रव- स्मितमुद्रामृदुना। पुष्पतोऽत्युद्रिक्ततया विगलद् यन्मधु मकरन्दस्त-द्वन्माधुर्य- चमत्कारवान् यो द्रवः परिहासस्तद्युक्ता या स्मितमुद्रा ईषद्विकशित- कपोलसौष्ठवान्वित- कटाक्षालक्षित-दंतपंक्तिरूपा परिपाटी, तया मृदुना सरसेन प्रतिपदमिति स्निग्धमादुर्येणेत्यर्थः। “द्रवकेलिपरीहासाः” इत्यमरः (1/6/33)। यद्वा, विगलन्मध्विव मादको यो द्रवो रसस्तद्वद् यत्समित् तदेवाधरामृतस्य मुद्रा। बहिर्मुद्रणं तया मृदुना। मनोहरेणेत्यर्थः।।24।।
सुबोधनी
अथ स्वीयानप्युरीकृत्य तथैवाह- स शिशर्नोऽस्मांक दृशोर्युगलं मुखेन्दुना। ना वितर्के। कदा शीतलीकरिष्यति। तददर्शनतप्तं नेत्रं स्वं प्रदर्श्य शीतलीकरिष्यतीत्यर्थः। तं विशिनष्टि- शिखिपिञ्छान्याभरणानि यस्य। मुखस्येन्दुतामाह- विगलन्मधुद्रववत्स्मितं तस्य मुद्रया भंगया मृदुना। विगलन्मृदुपदे च पूर्णताव्यञ्जके। पूर्णस्यैव गलनं मृदुता च।।24।।
|