- कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः
- कामं वा कमनीयतापरिमलस्वाराज्यबद्धव्रताः।
- नैवैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
- यत् सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता।।100।।[1]
अन्वयः – हे देव ! कतिपये सारस्यधौरेयकाः (सरसतायाः भारवाहाः) सहस्रशः कामं सन्तु, कमनीयतापरिमलस्वाराज्यवद्धव्रताः (कमनीयतानां यः असाधारणगुणः तस्य साम्राज्ये वद्धं व्रतं यैः ते अपि) कामं सन्तु। वयम् एवं न एव विवदामहे न च प्रियं ब्रूमहे, यत् सत्यं (तदेव ब्रूमः) रमणीयतापरिणतिः त्वयि एवं पारंगता।।100।।
अनुवाद- हे देव ! सारस्य (सरसता) का भार वहन करने वाले सहस्र – सहस्र व्यक्ति हुआ करें, और उनमें कमनीयता के परिमल के लोभी स्वाराज्यबद्धव्रत कुछेक व्यक्ति हुआ करें, मैं इन लोगों के साथ विवाद नहीं करता और प्रिय वाक्यों में इनकी स्तुति नहीं करता हूँ, किन्तु जो सत्य है वहीं कह रहा हूँ- रमणीयता की पराकाष्ठा तुम में ही है।।100।।
कृष्णवल्लभा
अथ स्वानुभवेन श्रीकृष्णरहस्यं परमं निर्धार्य तद्रसास्वादैकासक्तचेताः शपथपूर्वकं स्वानुभूत मेवार्थमाह-काममिति। सारस्य स्थिरांशस्य धौरेयका धुरीणाः। यद्वा, सारस्यं सरसता तस्य धौरेयका युक्तिभारैः सारनिर्द्धारका इत्यर्थः। कामं यथेष्ट कतिपये सहस्रशः सन्तु। कामं वा कमनीयतायाः परिमलः प्रसरस्तस्य स्वाराज्यं परमोत्कर्षस्तत्र बद्धं व्रतं नियमो यैस्तादृशा अपि सहस्रशः। सन्तु। हे देव सर्वदा मोदमान, एवं ते तथा विवदन्ते प्रियञ्च वदन्ति, तथा वयं नैव विवदामहे विमत्या न वदामः। ‘भासनोपसम्भाष’[2] इति वदेस्तङ्। न च प्रियं ब्रूमहे, न च परमतखण्डनार्थम्, न च स्वगोष्ठीप्रियार्थ- मित्यर्थः। अयम्भावः – तत्र कतिपय एव गोपीजनविनोदिशुद्ध- गोपालकिशोररूप- सारभारं वहन्तः सारान्तरं दूषयन्तः प्रगाढयुक्तिभिः स्थापयन्ति। अपरे तु तद्भावनाप्रधानास्तस्मिन्नेव मधुरशुद्धरसमय- विलासवति कमनीयतायाः परमोत्कर्ष- विश्राम इति। अन्ये तु प्रतिभानम्। तत्र वयं न विप्रतिपद्यामह इति। तर्हि ययं किं ब्रूथयत् सत्यं तदेव वयं शपथपूर्वकं ब्रूमः। किं तत्- रमणीयतायाः परिणतिरूपत्कर्षस्त्वय्येव पारंगता। रमणीयता- परमोत्कर्षस्त्वय्येवेत्यर्थः।।100।।
|