लीलायिताभ्यां रसशीतलाभ्यां
- नीलारुणाभ्यां नयनाम्बुजाभ्याम्।
- आलोकयेद्भुत- विभ्रमाभ्यां
- काले कदा कारुणिकः किशोरः।।45।।[1]
अन्वयः – कारुणिकः किशोरः लीलायिताभ्याम् (लीला-प्राचुर्याल्लीला इव आचरणः ये ताभ्याम्) रसशीतलाभ्यां (रसेन श्रृंगारादिना शीतलाभ्यां स्निग्धाभ्याम्) नीलारुणाभ्याम् (मध्ययोः नीलं प्रान्ततः नीलं प्रान्ततः अरुणं ययोः ताभ्याम्) अद्भुतविभ्रमाभ्याम् (अद्भुतः विभ्रमः विलासः ययोः ताभ्याम्) कदा काले (तादृशभाग्योदयतसमये) आलोकयेत् निरीक्षेत ?।।45।।
अनुवाद- वही करुणामय किशोर अपने लीलायित रसशीतल नीलारुण और अद्भुत विभ्रमशली (चञ्चल) नयनकमलों से मुझे कब देखेंगे ?।।45।।
कृष्णवल्लभा
सम्प्रति श्रीकृष्णस्यावलोकन-विशेषमाशास्ते– लीलायिताभ्यामिति।। किशोरो रसमयकिशोरावस्थो नयनाम्बुजाभ्यां कदा कस्मिन् काले समये आलोकयेदा- लोकयिष्यति। कारुणिको मद्दुःखासहिष्णुः। कारुणित्वाद् दर्शनं सम्भवतीत्यौ- त्सुक्यम्। कीदृशाभ्याम्- लीलायिताभ्याम्। लीला श्रृंगारभावजा क्रिया तयायितं गतं ययोस्ताभ्याम्। अत्यशाचर्यलावण्य-गतियुक्ताभ्यामित्यर्थः। “हेला लीलेत्यमी हावाः क्रियाः श्रृंगारभावजाः” इत्यमरः।[2] रसशीतलाभ्याम्- रसेन श्रृंगारादिना शीतलाभ्यां स्निग्धाभ्याम्। मध्यतो नीलं प्रान्ततोऽरुणञ्च ययोस्ताभ्याम्। तारकानीलिमसहजारुणि-ममिश्रित- मदोद्भुतारुणगुणयुक्ताभ्यामित्यर्थः। अद्भुतविभ्रमाभ्याम्- अद्भुतो विभ्रमो विलासो भ्रमणं वा ययोस्ताभ्याम्। “विभ्रमो भ्रान्तिहावयोरिति” मेदीनी (मान्त 52)। अद्भुतो विभ्रमो भूषास्थानविपर्ययो याभ्याम्। यल्लावण्य-निरीक्षणेन सर्वेषां सर्वमपि विस्मृतं भवतीति। “अस्थाने भूषणादीनां विन्यासो विभ्रसो मतः” इति मेदिनी। एतेन नयनयोः सुकोमलत्वमतिदीर्घत्वं लीलारसमयत्वञ्च सूचितम्।।45।।
सुबोधनी
अथ दैन्यतात् स्वायोग्यतां मत्वा तदालोकनमाशास्ते – स किशोरो नयनाम्बुजाभ्यां कदा काले तादृश भाग्योद समये। मामित्यध्याहारः। आलोकयेत्। तस्सम्भावयन्नाह- कारुणिकः। कारुण्यान्मां पश्येदित्यर्थः। कीदृग्भ्याम्- लीलाप्राचुर्याल्ली- लेवाचरतो ये ताभ्याम्। तत्कथम्- श्रृंगाररसेन शीतलाभ्याम्। तल्लक्षणमाह-तत्स्वाभाव्येन नीले जागरादरुणे ये, अतएवाद्भुतो विलासो ययोः। तद्दर्शनभाग्यं मम चेन्नास्ति तर्हि लीलायान्य-तोऽवलोकयता तेनाहमेव दृश्यः स्यामित्यभिप्रायः।।45।।
|