- आर्द्रावलोकितधुरा – परिणद्ध- नेत्र-
- माविस्कृत- स्मित सुधा- मधुराधरोष्ठम्।
- आद्यं पुमांसमवतंसित- बर्हिबर्ह
- मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः।।67।।[1]
अन्वयः – आर्द्रावलोकितधुरापारिणद्धनेत्रम् (प्रणय- करुणरसैरार्द्रया अवलोकितधुरा तदतिशयेन परिणद्धे युक्ते नेत्रे यस्य तम्) आविस्कृतस्मितसुधामधुराधरोष्ठम् (तेनैव आविस्कृतं यत् स्मितं तदेव सुधा तया मधुराधरोष्ठौ यस्य तम्) अवतंसितबर्हिबर्हम् (अवतंसितानि बर्हिबर्हाणि येन तम्) आद्यं पुमांसं कृतपुण्यपुञ्जाः कृतिनः आलोकयन्ति।।67।।
अनुवाद- जिनके नेत्र प्रणयकरुण रस से आर्द्र हैं; जिनके सुधामधुर अधरओष्ठ पर निरन्तर मृदुहास्य प्रकाशित है; जिनका मस्तक शिखिपिच्छे (मोरपंख) से परिशोभित है- ऐसे सौन्दर्य – माधुर्य के सिन्धु श्रीकृष्ण के दर्शन महापुण्यवान् कृतिव्यक्तियों को ही प्राप्त होते हैं।।67।।
कृष्णवल्लभा
अहो तद्दर्शनमतिदुर्लभम्, ये कृतपुण्यपुञ्जास्त एव पश्यन्तीत्याह- आद्रेति। कृतपुण्यपुञ्जाः कृताः पुण्यानां पुञ्जा राशयो यैस्ते। कृतं करणं प्रशस्तं सर्वतो भावनिष्ठारूपं येषामस्ति ते कृतिनः। आद्यं पुमांसं पुरुषोत्तममालोकयन्ति समयक् पश्यन्ति। तार्हि किं नारायणस्वरूपम्, नेत्याह- अवतंसितबर्हिबर्हम्। अवतंसितानि कृतोत्तंसानि बर्हिबर्हाणि मयुरपिच्छानि येन तम्। सहजगोपवेशमित्यर्थः। पुनः कीदृशम्- आर्द्रावलोकितधुरा परिणद्धनेत्रम्। आर्द्रं सरसं स्निग्धमिति यावत्। यदवलोकितं तस्य धूर्भारस्तया परिणद्धानि वशीकृतानि जगन्मात्रस्य नेत्राणि येन तम्। यद्वा, आर्द्राः, सरसाः श्रीराधाद्या गोप्यस्तासां यदवलोकितं तस्य धुरा तदतिशयेन परिणद्धे श्रृंखलादि-भिरिव तास्वेव बद्धे नेत्रे यस्य तम्। पुनः कीदृशम्- आविष्कृतस्मित-सुधामधुराधरोष्ठम्। आविस्कृता भंग्या प्रकटीकृता या स्मितसुधा तया मधुरावधरोष्ठौ यत्र तम्। यद्वा, स्मितसुधया मधुराण्य- धरयति तादृशमोष्ठं यस्य तम्।।67।।
|