अधीरमालोकितमार्द्र- जल्पितं
- गतं च गंभीर- विलासमन्थरम्।
- अमन्दमालिंगित- माकुलोन्मद-
- स्मितं च ते नाथ वदन्ति गोपिकाः।।27।।[1]
अन्वयः – हे नाथ! ते अधीरमालोकितम् आर्द्रजल्पितम् (आर्द्रेण स्निग्धेन सहजतरं जल्पितम्) गंभीर विलासमन्थरं गतञ्च अमन्दमालिंगतम् (गाढालिंगनम्) आकुलोन्मदस्मितञ्च गोपिकाः वदन्ति (विदन्ति इति पाठे जानन्ति)।।27।।
अनुवाद- हे नाथ! तुम्हारी अधीर चितवन, सरल जल्पना (वचन), गंभीर विलासमन्थर गति, गाढ़ आलिंगन और आकुल उन्मादक मृदुहास्य केवल गोपियाँ ही गाती हैं या जानती हैं।।27।।
कृष्णवल्लभा
अथ श्री कृष्णदर्शनानुभवविशेषं सर्वातिशायिनं जानन्नात्मनः परममहालालसां सूचयति- अधीरमिति- हे नाथ प्रभो! गोप्य एवं गोपिका अनुकम्पायां कन्। ता एव विदन्त्यनुभवन्ति- आस्वादयन्तीति यावत्। तत्किम्- ते तवाधीरं चञ्चलं प्रतिक्षणमन्य तरदालोकितमालोकनम्। सहसा दर्शनं यत्तदालोकितमुदीरितमिति (संगीतरत्नाकरे 7/461)। यद्वा, न धीराः स्थिरा येन तत्। धियोऽभावोऽ धीर्मोहस्तं राति ददातीत्यधीरमिति वा। आर्द्र सरसं जल्पिंत यत्र तत्। न केवलमालोकितमेवाधीरम्, गतञ्च क्षणमितः क्षणमन्यतः क्षणमितस्ततश्चेत्येवं रूपम्। गम्भीरैर्गूढाभिप्रायैर्विलासैर्मन्थरं मथ्नाति सर्वेषां मनांसीति। यद्वा, गंभीरवद् गंभीर- वेदिवन्मत्तगजेन्द्रवद् यो विलासस्तेन मन्थरम्। मन्दंमन्दमित्यर्थः। तथा चोक्तम्-
त्वंङ्मांसरुधिरस्रावान् मांसस्य गलनादपि।
- संज्ञां न लभते यस्तु विद्याद् गंभीरवेदिनम्।।
|