अधीर- बिम्बाधर- विभ्रमेण
- हर्षार्द्र- वेणुस्वर- सम्पदा च।
- अनेन केनापि मनोहरेण
- हा हन्त हा हन्त मनो दुनोषि।।36।।[1]
अन्वयः – हा हन्त ! हा हन्त ! अनेन केनापि मनोहरेण अधीरबिम्बाधारविभ्रमेण (अधीरस्य विम्बाधरस्य विभ्रमेण स्मितादिना) हर्षार्द्रवेणुस्वरसम्पदा च (हर्षेण स्निग्धाया वेणोः स्वरसम्यत् तया च) मनो दुनोषि (तत्र लोभमुत्पाद्य आकुलीकरोषि)।।36।।
अनुवाद- हाय ! हाय ! तुम अपने अनिर्वचनीय चपल मनोहर बिम्बाधर विभ्रम द्वारा और अपने उस आनन्द- परिपूरित वेणुनिनाद द्वारा मेरे मन को सन्तप्त किये डालते हो।।36।।
कृष्णवल्लभा
अथ कदाचिल्लीला-किशोरदर्शनसुखेन सम्यक् तत्प्राप्त्यभावदुःखेन च द्विधाभूतान्तः करणः सुखाकारमनोंऽश पक्षगतो दुःखाकार-मनोऽशं प्रति वदंस्तत् कृपादृष्ट्याशयैव स्थातव्यमित्याशयेनाह- अधीरेति। हे मनस्त्वं दुनोष्युत्तपसे। हा हन्त हा हन्तेति वीप्सायां खेदातिशयो ध्वन्यते। अनेन केनापि निमित्तेन। अनेनेति भावना- परीक्षीकृत-परमाश्चर्यसम्राज्ये- नेत्यर्थः। केनापि कोट्यंशेनापि तत्साम्यस्य क्वाप्यदृष्टेः। दृष्टान्तद्वारा वक्तुमशक्यत्वात्। कीदृशेन- अधीरेति। अधीरश्चञ्चलोऽन्तः- प्रेमभराद्वेणु-वादनक्रमाद्वा यो बिम्बतुल्योऽधरस्तस्य विभ्रम विलासो यस्मिंस्तेन। पुनः कीदृशेन- हर्षेणेति। हर्षेण आ ईषदार्द्रः सरसो यो वेणुस्तस्य ये स्वराः षड्जादयस्तेषां या सम्पद् द्वाविंशतिश्रुति-सम्बललितत्त्वम्। श्रुतिसम्बलिताः स्वराः, स्वराः श्रुतिभ्यः प्रभवन्तीति च। तत्र श्रुतयः- या सम्पद् द्वाविंशतिश्रुतिसम्बलितत्त्वम्। श्रुतिसम्बलिताः स्वराः, स्वराः श्रुतिभ्यः प्रभवन्तीति च। तत्र श्रुतयः-
उर्द्धस्थितायां हृदि नाडिकायां,
- नाड्यस्तिश्च्यः पवनाहतास्ताः।
- द्वाविंशतिस्तीक्ष्मतराः क्रमेण,
- नादं तु तावच्छुतितां नयन्ति।।इति।।
तथा च मनोहरेण मनोहारिणा।।36।।
|