|
|
- धेनुपालदयितास्तनस्थली
- धन्यकुंकुमसनाथकान्तये।
- वेणुगीतगतिमूलवेधसे
- ब्रह्मराशिमहसे नमो नमः।।77।।[1]
अन्वयः – धेनुपालदयितास्तनस्थलीधन्य-कुंकुमसनाथकान्तये (धेनुपालदयितानां स्तनतटी-सम्बन्धेन धन्यं यत् कुंकुमं तेन सनाथा सबला कान्तिर्यस्य) वेणुगीतगतिमूलवेधसे (वेणीगीतस्य या गतयः
स्वरग्राममूर्छनादिकास्तेषाम् आदिस्रष्ट्रे) ब्रह्मराशिमहसे (तेजरूपाणां ब्रह्मणां व्यापकानां यो राशिः समूहः ततोऽपि महः कान्तिर्यस्य तस्मै) नमो नमः।।77।।
अनुवाद- गोपवनिताओं की स्तनस्थली से लगकर – पुदकर धन्य हुए कुंकुम द्वारा जो अति उत्फुल्ल कान्तियुक्त हैं, जो वेणुगीत के स्वर-ग्राम इत्यादि के आदि स्रष्टा हैं, ब्रह्मराशि के मूल विधाता हैं, उन तेदःपुञ्ज श्रीकृष्ण को मैं बारबार नमस्कार करता हूँ।।77।।
कृष्णवल्लभा
वल्लवीसौभाग्योत्कर्ष वर्णयन् हर्षेण भूयो भूयो नमस्कुर्वन्नाह- धेनुपालेति। ब्रह्मराशिमह से ब्रह्मराशिरूपं मह्तेजो यस्य। यद्वा, ब्रह्मसुख- राशीनां मह उत्सव यस्मात्। भक्तानामिति शेषः। तस्मै गोपालरूपिणे श्रीकृष्णाय नमो नम इत्यादरे वीप्सा। गोपालरूपत्वं विशेषयन्नाह, कीदृशाय- धेनुपालाश्च धेनुपाला इत्येकशेषः। तेषां दयिता परमप्रेमास्पदीभूता श्रीराधा, तस्याः स्तनस्थल्याकृत्रिमा भूमिः सहजसौभाग्यवती, तत्र वर्तमानं यद्धन्यं कुंकुमं तेन सनाथा सैश्वर्या कान्तिर्यस्य। राधास्तनविषये सनाथा सोपतापा कान्तिरिच्छा यस्येति वा तस्मै। पुनः कीदृशाय- वेणुगीतगतिमूलवेधसे। वेणुना गीतं वेणुगीतं तस्य गतयो गमकादिप्रकारास्तासां मूलवेधस आदिवेधसे। यावन्त ईशमारभ्य वेणुगीतगतिस्रष्टारस्तेषामपि मूलवेधसे। वेणुगीत-क्रमास्तत एव जाता इत्यर्थः। माहकर्षणमोहनादि- शक्तिमद्वेगुणगीतायेत्यर्थः।।77।।
|
|