- किमिदमधर – वीथी – क्लृप्त – वंशीनिनादं
- किरति नयनयो – र्नः कामपि प्रेमधाराम्।
- तदिदममर – वीथी – दुर्लभं वल्लभं न-
- स्त्रिभुवन – कमनीयं दैवतं जीवितञ्च।।72।।[1]
अन्वयः – अधरवीथीक्लृप्तवंशीनिनादम् (अधर– वीथ्यां क्लृप्ता चित्रवदर्पिता या वंशी तस्यां निनादो यत्र तत्) कामपि प्रेमधारां नः नयनयोः किरति (वर्षति) तदिदममरवीथीदुर्लभम् (अमर-वीथ्यां देव श्रेण्यां तस्या अपि वा दुर्लभं) त्रिभुवनकमनीयं नः (अस्माकम्) दैवतं जीवितञ्च वल्लभम्।।72।।
अनुवाद – अधर पर वंशी रखकर वंशीनिनाद से हम लोगों के नेत्रों के आगे आश्चर्यजनक रूप से प्रेमधारा वर्णन कर रहे हैं, ये क्या वस्तु हैं? ये देवताओं को भी दुर्लभ, त्रिभुवन में कमनयी देवता हमारे जीवनवल्लभा श्रीकृष्ण ही होंगे।।72।।
कृष्णवल्लभा
अथ श्रीकृष्णचंद्रस्य परमप्रेमाविर्भावकत्वं परमदुर्लभत्वञ्च वदन् स्वस्य परम महाप्रीतिभक्तिविशेषनिष्ठोक्त्या दौर्लभ्याभावं सूचयति- किमिदमिति। किमिदत्याश्चर्यम्। यावत् सुखविशेषरूपं वस्तु ततोऽपि विलक्षणमिदम्- अनुभूयमानत्वात्। नोऽस्माकं नयनयोः कामप्यनिर्वचनीयां प्रेमधारां प्रेम्नो धारां किरति वर्षति। कीदृशम्- अधरेति। अधरवीथ्यां विशेषोल्लासरूपायां क्लृप्तो रचितो वंशीनिनादो यत्र तत्। विनापि वंशी तन्नादमनुकुर्वन् वरिवर्तीति। यद्वा, अधरवीथ्यामधरपुटे क्लृप्तो, न तु सम्यग्योजिता, दत्तफूत्कारा वा, या वंशी सा निनादा नितरां नादवती यत्र तत्। आ समन्ताज ज्ञातम्– नोऽस्माकं दैवतमेकान्त- भक्तिभावतः समाराध्यम्। न केवलं दैवतम्- जीवितञ्च जीवनवत्परम-प्रेमास्पदम्। यद्दैवतं तज्जीवितं न, यज्जीवितं तद् दैवतं न भवति। इदन्तु द्वमेव अतिस्त्रभुवनेषु कमनीयं मनोहरम्। पुनः कीदृशम्- अमरेति। अमराणां देवानां वीथी पंक्तिस्तस्य वल्लभं प्रियं। दुर्लभञ्च। तेषाममृतपानेन नामरत्वम्। किन्तु तद्वल्लभतयेत्यर्थः। यद्वा, प्रसिद्धामृतं तुच्छीकृत्य भगवत्कथामृत-पानपरत्वादमरा जीवन्मुक्ताः श्रीकृष्णैकभक्तिरस- निमग्नाः। तद्वीथ्यां तत्ङ्क्तौ वल्लभं प्रियमिति।।72।।
|