महाश्चर्य- सहजसाध्वी- धैर्यव्रतहानेः। पुनः कीदृशम्- अनर्घ्याममूल्याम्, सर्वपूज्याम्बा। ‘मूल्ये पूजाविधावर्घः’ इत्यमरः।[1] दशामाकाराम्। सौन्दर्य विशेषमित्यर्थः। आतन्वानम्, आ समन्तादंगप्रत्यंगेषु तन्वानं तन्वद्विस्तारयत्। दशां विशिनष्टिअनन्यजन्म नयनश्लाघ्याम्। अनन्यानामस्माकं जन्मनयनयोः श्लाघ्यां श्लाघार्हम्। यद्वा, अनन्यजन्मा कामस्तस्यापि नयनश्लाघ्याम्। ‘कुसुमेषुरनन्यजः’ इत्यमरः[2]।।87।।
सुबोधनी
पुनः सर्वाकर्षक- तल्लीलामाधुर्यस्फूर्त्या स्मरलालसोत्पादकानन्दत्बेनाह- अहो तन्मह आनन्दम्, आ सम्यगानन्दो यस्मात्तद्रूपं सन्नवनवत्वेन प्रकाशते। तदुदयस्थानं व्यनक्ति- व्रजसुन्दरीस्तनतट्यामेव साम्राज्यं यस्य। तत्सम्पादयति- अहन्यहनि प्रतिदिनं विहारक्रमान् क्रमेण विहारान्मूर्तिमत आचिन्वानं जगन्मनोभूमौ सञ्चिन्वन्तम्। तन्मोहकतामाह- स्निग्धस्मितस्य स्निग्ध- शोभयारुन्धत्या अपि हृदयं स्वमाधुर्ये-णावृण्वानम। तत्र हेतुः- अनर्घ्याम्। यत्र या न सम्भवति तां दशा विस्तारयत्। कीदृशीम् – न विद्यतेन्यजन्म येषां तेषां नयनानां योग्याम्। दिव्यचक्षुषामित्यर्थः।।87।।
सारंगरंगदा
पुनर्दशाद्वयसम्वलितः स्मरलालसोत्पादक- तन्माधुर्यदर्श- नानन्दमग्नस्त- देवानन्दं मत्वाह- तदेतन्मह आनन्दम्, आ सम्यगानन्दो य्मात्तदानन्दम्, तद्रुपं सदुज्जृम्भते क्षणे क्षणे नवनवत्वेन प्रकाशते।
परितः पश्यन् “राधापयोधरोत्संग - शायिनेऽशेषशायिने”[3] इतिवत्तं दृष्ट्वाह- व्रजसुन्दरीणां स्तनतट्य एव साम्राज्यं सुखदस्थानं यस्य। तासां तद्वा तासु साम्राज्यं यस्येति वा। तत्रैव तादृशत्वेन सुलभमित्यर्थः। अतः कामप्यनुपमां दशां कोटिमन्मथमोहिनीमातन्वानं प्रकटयन्तम्। माधुर्यस्यान्त्यान्नेत्रा- भ्यामनुभवितुमसमर्थः। कोटिनयनं प्रार्थयन् स्वपुंस्त्वात्तत्रा- प्ययोग्यतामननात् सामान्यस्त्रीत्वं प्रार्थयं – स्तत्राप्ययोग्यतं विचार्य सदैन्यमाह- कीदृशीं ताम्- अन्यजन्मानि व्रजसुन्दरी- व्यतिरिक्तानि यानि जन्मानि तेषु यानि नयनानि तैः श्लाघितुमशक्याम्। किमुतानुभवितुम्। आभिर्व्रजदेवी- भिरेवानुभाव्य- मित्यर्थः। विलाससौष्ठवं दृष्ट्वाह- अहन्यहनि प्रतिदिनं प्रतिक्षणं प्रतिनिमेषं साकारान्मूर्तिमतो विहारक्रमांस्तत्परिपाटी- राचिन्वानं सृजन्तम्। एवं चेत्तर्हि तदन्यो जनस्तदाशां त्यक्त्वा सुखं तिष्ठतु, अत्र सोपालम्भमाह- आरुन्धेति। सहजार्द्रस्य स्मितस्य यार्द्रा श्रीः शोभा तयैवारुन्धत्या अपि हृदयमारुन्धानम्। आत्मन्यारुद्ध्य स्थापयेत्। सुन्दरं पुरषं दृष्टवा पुरुषा अपि तं श्लाघन्ते, तस्यास्तच्छलाघापि नास्ति। अस्या अपीति कथमन्यो जनः सुखं तिष्ठेदित्यर्थः।।87।।
|