|
|
सुबोधनी
अथोद्यतात्मभावस्वाभाव्येन सनर्माललाप- वयं कमपि मृगयामहे। किमर्थम्- निविडाम्बुदानां कान्तिचौरम्। स कथं परिचेष्यते- मदशिखिशिखा- भिर्लीलायुक्त उत्तंसो यस्य। तथा, मनोज्ञं मनसि स्फुरन्मुखाम्बुजं यस्य। तर्हि कथं प्राप्स्यथ- विलास भरेणालसाऽनुद्यमो यत्र। अनुद्यमोऽपि कुतः- कमलायाः श्रीराधाया अपांगस्य य उच्चैः प्रसंगस्तेन जडम्। तत्र हेतुः- जगति मधुरिम्णां यः परीपाकः परिणतिस्तस्योद्रेक आधिक्यं यत्र। अनेन गमनाशक्त्या तत्प्राप्तिः सुलभेति भावः।।47।।
सारंगरंगदा
नन्वागतोऽयं त्वां परिहसन् क्वापि कुञ्जे निलीनस्तिष्ठति, तदागच्छ तमन्विष्य पश्याम् इति, सखीनां गिरा ताभिस्तमन्विष्य भ्रमन्त्याः ‘क्वचित्तुलसि’[1], ‘अप्येणपत्नी’[2] इत्यादिवत्- स्थिरचरान्- पृच्छन्त्यास्तेषां प्रश्नमुट्टंक्य तान् प्रति प्रत्युत्तरन्त्या वचोऽनुवदन्नाह- नुन किमर्थमुन्मत्ता इव रात्रो भ्रमथ। तत्र सावहित्थमाह, - यस्य नामापि चौरत्वादग्राह्यं तं कमपि वयं मृगयामहे। स ज्ञायत एव, दृष्टश्चेत् कथ्यताम्। आं शठोऽयं क्वापि कयापि गोप्या रममाणस्तिष्ठति, तदन्वेषणं तु लाघवायैव, तन्निवर्तध्वम्। तत्र सगर्वसावहेलमाह- कमलेति। लक्ष्म्या अपांगस्य य उदग्रः प्रसंगस्तेन जडं तद्वशमपि। किमुतास्म- द्गोप्या रममाणम्। ततोऽस्मन्मनोरत्नं हृत्वा गतोऽयम्, तदेव प्रार्थ्यं किं नस्तेनेति भावः। ननु सद्धर्मशीले कथं चौरापवादं ददथ, तत्र सहसा-शिरोधूननमाह-बहलेति। वजेंद्रधनुरादियुक्त- निविडजलदानामपि कान्तिचौरम्, किमुताबलानांनो मनोरत्नमिति भावः। तथा – मध्विति। मधुरिम्णां परीपाको येषु, ते मधुरिमपरीपाकाः स्मरेन्दुपद्महंस-मृगमीनपल्लवाद्यास्तेषामुद्गतो रेकः शंका यस्मात्तम्। तेषामपि माधुर्याणां चौरमित्यर्थः। ‘मधुरं रसवत् स्वादुप्रियेषु’ इति विश्वः।[3] ‘रेको विवेके शंकायां रेकः स्यादधमेऽपि च’ इति विश्वः।[4] नन्वेवं चंद्दूरे स्थायस्ति कथं द्रक्ष्यथ, तत्राह- मेदेति। पिञ्छमुकुटाद्दूरतोऽपि दृश्यो भवेदिति भावः। ननु ततोऽपि श्रावित्वापसरिष्यति, तत्राह-विलासेति। तदतिशयविलासेन शीघ्रं गन्तुम- प्यशक्तमिति भावः। ननु घनतमसि कुञ्जे निलीय स्थास्यति, तत्राह- मनोज्ञेति। कोटिचंद्रवन्मनोज्ञं मुखाम्बुजं यस्य। तत् कान्तिपूरेणैव दृश्यो भवेदित्यर्थः। यद्वा, ननु प्रातर्व्रज एव तं लप्स्यध्वे, तदैवात्मधनं ग्राह्यम्, सबलोऽसौ रात्रौ कदाचिद्दे- हमपि वश्चोरयेत्, तन्निवर्तध्वम्, तत्रात्मान- मनुक्त्वा भंग्याह- कमलानां वरस्त्रीणामासाम- पांगस्योदग्रो यः प्रसंगस्तेन जडम्। किमपि कर्तुमसमर्थमित्यर्थः। ‘कमला श्रीवरस्त्रियोः’ इति विश्वः।।[5] स्वान्तर्द्दशायाम्- स्वसमानसखीः प्रत्युक्तिः हे सख्यः, आगच्छत, येनोन्मादितेयं तमन्वेषयामः। ननु कथं रात्रौ लप्स्यामहे, तत्राह पञ्चभिविशेषणैः। ननु प्राप्तेऽपि कथामायास्यति, तत्राह- कमला श्रीराधा, अस्या अपांगेन तत्प्रस्तावेन जडं तद्वशचित्तम्। श्रुत्वैवैष्यतीत्यर्थः। बाह्यार्थः स्पष्टः।।47।।
|
|