श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
हृदये शेत इति हृदयेशयः। शयवासवासिष्व-कालादिति सप्तम्यलुक्। हृदयेशं याति प्राप्नोतीति वा हृदयेशयो मनोरागः। अन्यां कामपि तत्संबंधिनीं धान्यां प्राणधनकरीं कथां कथयत्वित्याशिषि लोट्। यया सुखं तिष्ठामीति शेषः। तदपि न संगच्छत इत्याह-तृष्णा चित्तस्थितवाञ्छा कृष्णे सर्वाकर्षके चिरं प्रतिक्षणं लम्बते संस्रते। सर्वतश्च्युतापि तस्मिन्नेव स्रस्ता भवतीत्यर्थः। वृक्षाद् गलितं पत्रादि पुनरपि तत्र पूर्ववल्लगति तद्वत्। तृष्णा कीदृशी- कृपण कृपणातिदरिद्रा। यथा यथा पूर्तिर्भवति तथा तथा वर्द्धत इत्यर्थः। कृष्णं विशिनष्टि- मधुरमधुरस्मेराकारे। मधुरादपि मधुरः स्मेर ईषद्धास्ययुक्तः अतिरसावेशादुल्लास विशेषप्राप्त इति वाकार आकृतिर्यस्य तस्मिन्। यद्वा, मधुरमधुरोऽतिशयमधुरो यः स्मेरः स एवा समन्तात् ‘कारा’ बन्धन-गृहं यस्मिन्। पुनर्विशिनष्टि-मनोनयनोत्सवे। मनोनयनयो-र्मूर्तिमानुत्सवो यस्तस्मिन्निति।।42।। सुबोधनी सारंगरंगदा |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज