श्रीकृष्णकर्णामृतम् -श्रीमद् अनन्तदास बाबाजी महाराज
सारंगरंगदा
यथा (भा. 10/47/21; उज्ज्वलस्य तत्रैव 201) ‘अपि वत’ इत्यादि। तत्र यथा चतुर्षुपादेषु, गाम्भीर्याद्याश्चत्वारो भावा व्यक्तास्तथात्र चतुर्षु श्लोकेषु। तत्र प्रथमं तद्दर्शनोत्कण्ठया ‘अपि वत’ इति प्रथम पादवत् सगाम्भीर्य तत् प्रलपनमनुवदन्नाह- ते तव महः सौन्दर्यपूरमप्यहं दृश्यासम्। यथा तत्र मथुरास्थित्या कदाचिदागमनमपि सम्भवेत्तथात्रापि तत्कान्तिदर्शने जाते तद्दर्शनमपि सम्भवेदिति गाम्भीर्यम्। कीदृशम्। निःसीमं सौन्दर्यादिना-वधिशून्यम्। मां त्यक्त्वान्यत्र गमनान्निर्मर्यादमपि। अतोऽन्यासंग- लग्नचंदनकुंकुमयावकादिना स्तवकिता नील-कान्तिधारैव लता यस्मिन्। अन्यासंगोपनेन मत्प्रतारणास्यास्तोकोऽनल्पः स्मितभरो यस्मिन्। तथा, तेनैव हेतुनायतायतेऽत्यायतेऽक्षिणी यत्र। नन्वन्यांगनासम्भुक्तं मामवधीर्य पुनः किमिति दिदृक्षस इति मनस्युट्टंक्य सदैन्यमाह- निःशेषैः स्तनैः सर्वाभिर्व्रजांगनाभिरपि, किमुतैकया, मृदितमपि। मम सुखदमित्यर्थः। सर्वत्र हेतुः- त्रिभ्विति। त्रिभुवनमेव सुन्दरं यस्मात्।। स्वान्तर्द्दशायाम्- प्रेयसीप्रेरणाय स्मितायताक्षादिविशिष्टं तदित्यर्थः।। वाह्यार्थःस्पष्ट एव।।28।। ‘आस्वादबिन्दु’ टीका
अर्थात् दिव्योन्माद की जिस अवस्था में सरलतावश गार्म्भीर्य, दैन्य, चापल्य और उत्कण्ठा के साथ श्रीहरि के विषय में प्रश्न किए जाते हैं, विज्ञजन उसे ‘सुजल्प’ कहकर वर्णन करते हैं। यथा- |
टीका टिप्पणी और संदर्भ
संबंधित लेख
क्रमांक | श्लोक संख्या | श्लोक | पृष्ठ संख्या |
वर्णमाला क्रमानुसार लेख खोज