सुबोधनी
तदानन्दप्लावं स्वयमनुभूय स्वसंगिद्दुद्यपि तथाशास्ते- ओजः पूर्वोक्तानन्दसंप्लवं मदीयानामपि हृदये, आ सम्यक क्रीडताम्। तत्र तद्योग्यतामाह- अरुणपादसरोरुहाभ्यामाद्रे। आश्रयमात्रेण तद्योग्यकृते। हृदयस्य प्रकृतत्त्वमाशंक्य समादधाति- भुवनमप्यार्द्रयितुं समर्थम्। तत्र हेतुः- अव्यामञ्जुलं सहजसुंदरं यन्मुखाम्बुजं तस्य ये मनोहरा भावा भावप्रकाशनरूपाः कटाक्षादयस्तैः सह तयास्वाद्यमानो निजोऽसाधारणो यो वेणोर्विनोदनादो निगूढ़ प्रेरणरूपों नादो यस्य तत्।।15।।
सारंगरंगदा
अथ तयैव गम्यैः संकेतवेणुनादाद्यैर्नीरजराजि – राजित- यमुना नीरनिकट – तीरवानीर- कुञ्जाय तां- प्रेरयन्तं तं विलक्य सश्लाघमाह- पूर्वरीत्येदमोजो मदीयानां सखीजनानां हृदये तत्तुल्यायां राधायां तद्गुण एव वारुणपाद- सरोरुहाभ्याम आ सम्यक् क्रीडताम्। किदृशे- आर्द्रे तत्प्रेमस्निग्धे। ताभ्यामार्द्रे वा। विच्छेदे प्रतप्त- हृदस्तत् स्पर्शेनैव स्निग्धतोत्पत्तः। तदुक्तम् (भा. 10/31/7)- “ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयमिति”। तत्र हेतुः- भुवनेति। भुवनमेवार्द्रं यस्मात्। वेणुनादाद्यैस्तदार्द्रयतीति वा। तथा, अव्याजमञ्जुलं यत् कृष्णमुखाम्बुजं तस्य संकेतरूपभ्रूनेत्रान्त- चालननिरक्षरकथनादि-रूपमुग्धभावैः सह श्रीराधयैवास्वाद्यमानो निजः स्वप्रेरणनिमित्तको वेणोर्विनोदनादः।
- काञ्चनवल्लिसंगिनि त्वरयाब्जवनीं विहाय ता भ्रमरीः।
- मधुपि मधुसूदनस्त्वां रमयितुमेष्यत्यसौ निभृतम्।।
इत्यादिगूढ़प्रेरणरूपो नादो यस्य। किंवा, तस्यास्तत्प्रेरणज्ञान-ज्ञापक- तादृशमुखाम्बुजभावैः सहस्वाद्यमानो निजवेणोस्तादृशनादो येन।। बाह्ये- मम हृदये प्रकाशताम्। हृदयस्य प्राकृतत्त्वमाशंक्य समादधाति- तद्पादाब्जाभ्यामार्द्रे तत्प्रकाशयोग्यतां नीते। अन्यत् समानम्।।15।।
‘आस्वादबिन्दु’ टीका
अन्य गोपियों के लिए अगम्य, एकमात्र राधारानी के लिए गम्य संकेतवेणुनाद द्वारा श्रीकृष्ण कमलराजि-शोभित अशोक कुञ्ज में श्रीराधा को भेज रहे हैं। उन्हीं विनोद वेणुवादनकारी श्रीकृष्ण का उज्ज्वल मधुर रूप देखकर ही श्रीलीलाशुक इस श्लोक की अवतारणा कर रहे हैं।
|